अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2318, कुल 2600 में से
संदर्भ में पढ़ें६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० १ सू० २. केचित्त्वत्र छान्दोग्यस्थं 'वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवताया'मिति वाक्यं विषयत्वेन उक्त्वा, सूत्रे वाक्पदस्य तद्वृत्ति- परत्वं वदन्ति, सम्पत्तिं तन्नाशं च । तन्न साधीयः । तथाहि । वाक्पदस्य वृत्तिपरत्वं चेच्छुत्यभिमतं स्यात्, सूत्रकारस्तदा तथैव वदेत्, न तु तत्स्वरूपमेव वाक्यम् । तन्निर्णयार्थमेव प्रवृत्तेः । मुख्यार्थत्यागो लक्षणापत्तिश्च । किञ्च, एवं 'मनसी'ति पदवैयर्थ्यं स्यात्, विषय- वाक्योक्तक्रमत्यागानुपपत्तिश्चेति ॥ २ ॥ भाष्यप्रकाशः । ननु या छान्दोग्यश्रुतिरत्र सम्मतित्वेन दर्शिता, सैवात्र सर्वाहृतत्वाद्विषयवाक्यत्वेना- दरणीया, ततश्च कथं भवदुक्तस्यार्थस्याभिसंहितत्वमित्याकाङ्क्षायामन्यमते तेषां बोधयितुं मतान्तर- मनुवदन्ति केचिदित्यादि । ते हि हिरण्यगर्भादिविद्यास्वपरासु च विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन्तो यथाशास्त्रमुत्क्रान्तिक्रमकथनं विद्वदविदुषोरुत्क्रान्तौ प्रकारसाम्यं च व्यासाभिमतमङ्गीकुर्वन्त उक्तरीत्या वदन्तीत्यर्थः । तन्न तथेति बोधनाय दूषयन्ति तन्नेत्यादि । ननु सत्यमस्तीदं दूषणत्रयम्, तथाप्यग्रे 'अविभागो वचना'दित्यनेन तत्त्वप्रलयस्य वक्ष्यमाण- त्वादत्र वृत्तिप्रलय आद्रियत इति व्यासाशयस्य तैर्बोधनाददोष इत्यत आहुः किञ्चेत्यादि । यद्यपि तत्सूत्रमन्यार्थम्, तथापि खोक्तसमर्थनाय तथार्थादरेपि सम्पत्तिपदस्य वृत्त्युपसंहारार्थ- [L18