अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2317, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१ सर्वेन्द्रियव्यापारकृतीच्छा समभूत् । तत्र तेषामसामर्थ्यात् भगवदानन्दसम्ब- न्धिमनःसम्बन्धेन तं प्राप्स्याम इति तत्रैव सक्ताः तेनानन्देन सम्पन्ना जाताः । अयमेवार्थोऽनेन सूत्रेणाग्रिमेण च 'अत एव सर्वाण्यन्वि'ति सूत्रेण निरूप्यते । दर्शनानन्तरमादौ सह सम्भाषणेच्छैव जन्यत इति, 'वाङ्मनसि सम्पद्यत' इति छान्दोग्ये स्फुतोक्ते संमत्या चादौ सैवोक्ता । एवं सति वाङ्मनसि सक्ता सती भगवदानन्देन सम्पद्यत इति सूत्रार्थः सम्पद्यते । 'दर्शनाभावेपि वेणुवादिशब्दा- दपि तथा सम्पद्यत इति हेत्वन्तरमाह शब्दाच्चेति ॥ १ ॥ अत एव सर्वाण्यनु ॥ २ ॥ अत एव दर्शनाच्छब्दाच्च हेतोः सर्वाणीन्द्रियाणि, अनु सान्निध्यात् वाचः पश्चान् मनसि सक्तानि भगवदानन्देन सम्पद्यन्त इत्यर्थः ।