अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2321, कुल 2600 में से
संदर्भ में पढ़ेंट्काशयेनेवमुक्तम् । अभ्युपगमादयस्तु मुण्डकोपनिषत्सु पठ्यन्ते । 'नायमात्मे'- त्युपक्रम्य, 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूं स्वाम् । नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाथ लिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधामे'ति ॥ ४ ॥ इति चतुर्थाध्याये द्वितीयपादे प्रथमं वाङ्मनोधिकरणम् ॥ १ ॥ उक्तं निगूढमाशयं प्रकटयति । भूतेषु तच्छ्रुतेः ॥ ५ ॥ ( ४-२-२. ) ननु मर्यादामार्गीयाणामप्येवमेव वागादिलयः, उतान्यथेति संशये निर्णयमाह । तेषां ते भूतेषु लीयन्ते, न तूक्तरीत्या भगवति । अत्र प्रमाण- त्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती'त्यनेनोक्तमभ्युपगमनम्, शारीरब्राह्मणे 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामती'त्युक्तमनुगमनम्, 'सविज्ञानो भवती'त्यनेनोक्तमवस्थानं च व्याकुर्वन्ति । तदा छान्दोग्यस्य कस्याप्यर्थस्यानङ्गीकारात् कथं तस्य विषयवाक्यत्वमित्यपि ध्येयम् ॥ ४ ॥ इति प्रथमं वाङ्मनोधिकरणम् ॥ १ ॥ भूतेषु तच्छ्रुतेः ॥ ५॥ अधिकरणमवतारयन्ति नन्वित्यादि । इति संशये निर्णय- माहेति । एवं संशये भगवन्मार्गत्वस्याविशिष्टत्वेनात्रापि पूर्ववदेव वागादिलय इति पूर्व- पक्षावतारान्निर्णयमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति तेषामित्यादि । हेतुबोधिकां श्रुतिमुदाहरन्ति तदुक्तं भक्तिहंसे 'भक्तिमार्गः श्रवणादिसरणिरूप' इति । स चैकादशैकोनविंशाध्यायोक्तो ग्राह्यः । 'पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मितिवाक्ये परपदात् परं फलाविसंवादि तेन शरणगमना- नन्तरमात्मनिवेदनमपि श्रोतव्यं भगवत्सन्निधापन इति बोधितम् । सप्तदशाष्टादशाध्यायोक्ता भक्तिः सर्वोत्तममार्गीया, तथापि तया भक्त्यजननदर्शनान्न गृहीता । मुक्तिरिति । पुरुषोत्तमचरणसायुज्यम् । चरणस्य वैकुंठादिरूपत्वाद्विहगादिरूपत्वं बोध्यम् । 'प्रायो बताम्ब विहगा मुनयो वनेस्मिन्नि'ति वाक्यात् । पुष्टिमार्गोप्ययमुच्यते 'तत्त्वा यामि ब्रह्मणा वन्दमान' इति सन्ध्याश्रुतेः । अस्यां तदाश्रया प्रतिकृतिभजने फलसाधनविषयोर्भिन्नत्वेन व्यभिचारिणी भक्तिरिति । निगूढाशयेनेति । भक्तिवि- षयाभिप्रायेण । मुण्डकेति । बहुवचमान्यत्वात् । तनूं स्वामिति । स्वीयतनुत्वेन वृणुते । अ- लिङ्गादिति । सर्वात्मभावलिङ्गशून्यात् । आत्मनोप्यात्मा । धाम अक्षरं अक्षरात्मकं हृदयम् । एवमु- क्तानार्थमित्यर्थः । प्रकृतमुच्यते सविज्ञान इति । विज्ञायतेऽनेनेति विज्ञानम् । इन्द्रियजालं प्राण- सहितं तेन सह वर्तमानो भवति । अवस्थानमिति । सप्राणस्येन्द्रियजालस्य प्राप्तव्यकर्मफलज्ञानवति जीवेऽवस्थानम् । तदेत्यादिविषयवाक्योक्तार्थस्य सौत्रसङ्गतिपूर्वपरामर्शकतच्छन्दस्य छान्दोग्यीयर्थ- परामर्शकस्य सत्त्वेपि कस्यार्थस्येत्यादि । तस्येति । ज्योतिर्ब्राह्मणादेः । विषयेति । तृतीयमेकसूत्र- मधिकरणमिदं परेषाम् । इत्यपीति । अपिना सन्दिग्धत्वविषयवाक्यस्य व्याख्यानेन । नन्वस्त्वेवं परन्तु ग्रन्थान्तरेधिकरणमालायां प्राणश्छान्दोग्योक्तोत्रत्यविषयवाक्यैकवाक्यतया प्राणसहितो जीवस्तेजसि लीनो भवतीत्युक्तेः कथं छान्दोग्यस्य कस्याप्यर्थस्यानङ्गीकार इति चेन्न । एतद्ग्रन्थमात्रविषयत्वेन दोषस्य ग्रन्थान्तरसम्मेलनेऽभावात् ॥ ४ ॥ इति प्रथमं वाङ्मनोधिकरणम् ॥ १ ॥ १. वाप्यलिङ्गादिति रश्मिपाठः । ९ म० सू० २० 2183