अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2322, कुल 2600 में से
संदर्भ में पढ़ेंमाह । तच्छ्रुतेः । 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुर्दिशं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयत' इति श्रुतेः । न चाविद्वद्विषयिणीय श्रुतिरिति वाच्यम् । 'याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात् प्राणाः क्रामन्त्याहो नेति, नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्रयत्याध्मायत्याध्मातो मृतः शेत' इति पूर्ववाक्यात् । न ह्यविदुषः प्राणानामनुत्क्रमः । 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामती'त्यादिश्रुतेः । ननु 'यत्रास्य पुरुषस्ये'त्युपक्रम्य 'रेतश्च निधीयत' इत्यन्ता श्रुतिरविद्वद्वि- षयिणीति मन्तव्यम् । यत एतदग्रे, 'क्वायं तदा पुरुषो भवती'ति प्रश्ने याज्ञवल्क्या- र्तभागाभ्यां विचारितमुत्तरमुच्यते । 'तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत् प्रशशसतुः कर्म हैव तत् प्रशशसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने'ति । एतेन कर्माश्रयस्तिष्ठतीति निर्णयः सम्पद्यते । एवं सति प्राणा- नुत्क्रमणोक्त्या सङ्घातलयोक्त्या च विद्वद्विषयत्वमत्रावसीयते, यतस्तस्यैवोक्तं द्वयं सम्भवति । अग्रिमश्रुत्युक्तकर्माश्रयत्वं च तस्मिन् विरुद्धम्, अतः पूर्वो- त्तरविरोधाद्विषयानिश्चये प्राप्ते प्रतिब्रूमः । मर्यादामार्गीयविद्वद्विषयिण्येवेयं श्रुतिरिति । अत एव प्रश्ने, 'क्व तदा पुरुषो भवती'त्येतावत्तैव चारितार्थ्येऽपि यत्रास्येत्यादि । एतेन सूत्रस्थं 'भूतेष्वि'ति पदं देवताया अप्युपलक्षकमिति बोधितम् । श्रुतिस्तु बृहदारण्यक आर्तभागब्राह्मणेऽस्ति । इयं श्रुतिरन्यैरविद्वद्विषयत्वेन व्याख्यातेति तन्नि- षेधन्ति न चेत्यादि । तथा चेतः पूर्वस्मिन् ग्रन्थे प्राणात्नुक्रमणरूपस्य मुक्तिलिङ्गभावान्ना- विद्वद्विषयत्वं तस्या वक्तुं शक्यमित्यर्थः । एवमस्याः श्रुतेरविद्वद्विषयतायां बाधके दर्शिते पुनर- विद्वद्विषयतां साधयितुं पूर्वोत्तरश्रुत्योर्विरोधेन सन्देहमुत्पाद्यन् विद्वद्विषयतां प्रतिक्षिपति नन्वित्यादि । एतेनेति । विचारितनिर्धारकवाक्येन । एवं सतीति । उक्तप्रकारे विरुद्ध- वाक्यद्वये एकस्मिन् प्रकरणे श्रूयमाणे सति । विरुद्धमिति । अवसीयत इति शेषः । एवं भूतेषु तच्छ्रुतेः ॥ ५ ॥ बोधितमिति । स्वदेवतासहितायां प्रकृतौ योनौ निधानकथना- द्वोधितम् । न चेत्यादीति । याज्ञवल्क्यो नेति होवाचेत्यन्वयः । उच्छ्रयतीति । उच्छ्रनतां प्राप्नोति श्शोथेन । आध्मायतीतिबर्द्धहितेन वायुना पूर्यत इत्यर्थः । मुक्तिलिङ्गस्येति । वक्ष्यमाणादनुत्क- लिङ्गाद्विपरीतं मुक्तिलिङ्गं तस्य । बाधक इति । प्राणात्नुक्रमणरूपे बाधके । पूर्वोत्तरेति । यत्रायं पुरुषो म्रियतेति पूर्वा, यत्रास्य पुरुषस्येत्युत्तरा, तयोः श्रुत्योः । नन्वित्यादीति । उच्यत इति । भग- वतोच्यते श्रुत्या । उक्तेति । आर्तभागब्राह्मणप्रकारेके । आर्तभागब्राह्मणे वाक्यद्वयमित्युक्तप्रकारकता । ऋतभागस्यापत्यमर्तभागः। विरुद्धेति । संघातलयप्राणानुक्रमणबोधकवाक्यद्वये । एकस्मिन्निति । एक- विद्धन्मात्रविषये देशकालरूपे प्रकरणे । विरुद्धमितीति । विद्वद्विद्धज्ञानविरुद्धं, सहानवस्थासित्वं १. उच्छूयतीति प्राचीनादर्शेषु, उच्छ्रयतीति रश्मौ । 2184