अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2325, कुल 2600 में से
संदर्भ में पढ़ेंनैकस्मिन् दर्शयतो हि ॥ ६ ॥ एकस्मिन् ज्ञानिनि भक्ते वा मर्यादानियमो न, किन्तूभयोरपि । तत्र हेतुः दर्शयत इति । यतो याज्ञवल्क्यार्तभागौ ज्ञानिभक्तसाधारण्येन मर्यादा- नियमं दर्शयत उक्तरीत्या, 'तौ ह'त्यादिना । अन्यथा प्राक् कृताङ्गीकृतिरन्यथा भवेदित्युपपत्तिर्हिशब्देन सूच्यते । पूर्वोक्तपूर्वोत्तरश्रुतिविरोधपरिहारान्यथानुप- पत्तिरत्र मूलमिति ज्ञेयम् । केचित्तूपसंहृतेषु वागादिषु शरीरान्तरप्रेप्सासामयिको जीवः 'क्वायं तदा पुरुष' इति प्रश्नविषय इति वदन्ति । तन्न साधीयः । 'तमुत्क्रामन्तं भाष्यप्रकाशः। नैकस्मिन् दर्शयतो हि ॥ ६ ॥ सूत्रमवतारयन्ति नन्वित्यादि। भक्तं तु तादृश- मपि कदाचित् पुष्टौ प्रवेशयतीति । तृतीयस्कन्धे, 'जीवाः श्रेष्ठा ह्यजीवाना'मित्यादिना शेषपूजायामुत्कृष्टबोधने, 'मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शना'दिति कपिलदेववाक्ये मर्यादाभक्ते उत्कर्षविश्रान्तेः कथनेन तादृशं पुष्टौ प्रवेशय- तीत्येवं सम्भावयितुं शक्यत्वात्तं प्रवेशयति । व्याकुर्वन्ति एकस्मिन्नित्यादि । ज्ञानिभक्त- साधारण्येनेति । विशेषानिर्देशात्, 'अयं पुरुष' इति सामान्यनिर्देशात्, कर्मोक्तिकर्मप्रशंसाभ्यां मर्यादामार्गस्यैव विषयीकरणाच्च । तथा च यद्यवान्तरो ज्ञानभक्तिकृतो विशेषो विवक्षितः स्यात्, तदा सामान्येन न वदेताम्, अतस्तथेत्यर्थः । ननु पुष्टिमर्यादाभक्तयोर्भक्तिमत्त्वे तुल्येपि कुतोऽयं विशेषो यन्मर्यादामार्गीयवागादीनां भूतेष्वेव लयः, न भगवतीत्याकाङ्क्षायां गूढाभिसन्धिमाहुः अन्यथेत्यादि । यदि तद्वागादिलयो भगवत्यङ्गीक्रियेत, तदा अप्राकृतानां सर्वभावप्रपन्ना प्रकृतिसम्बन्धरहितानां या अङ्गीकृतिः स्वीयत्वेन वरणम्, सा अन्यथा भवेत्, इतरतुल्यतां प्राप्नुवन्ती वरणश्रुत्युक्तमसाधारण्यं विरुन्ध्यादित्यर्थोपपत्तिर्हिशब्देन सूच्यते । तथा च ताभ्यां ज्ञानिभक्तसाधारण्येन यन्निरूपितं तत्रेयं बीजमित्यर्थः । नन्वस्याः श्रुतेरेवं तात्पर्यकल्पने किं बीजमत आहुः पूर्वोक्तेत्यादि । पूर्वोत्तरश्रुतिस्तु 'न तस्मात् प्राणा उत्क्रामन्ती'त्यादिरूपा बोध्या। तथा चैतद् बीजमित्यर्थः । एतदेव दृढीकर्तुं, दूषणाय मतान्तरमुपक्षिपन्ति केचिदित्यादि । दूषयन्ति तन्नेत्यादि । रश्मिः। नैकस्मिन् दर्शयतो हि ॥ ६ ॥ अकर्तुरिति । वाक्योक्तान्यासकर्तुः । पञ्चम्यन्तम् । मर्यादाभक्तेरिति । मय्यर्पितात्मन अत्रात्मपदं मनःपरम् । पञ्चम्यन्तं पदम् । मानसीसेवा । संन्यस्तानि कर्माणि । 'कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्नि'त्युक्तानि । अतस्तथा । पुष्टा- विति । कदाचिदिति बोध्यम् । अत्यन्तानुग्रहकाल इति तदर्थः । मर्यादामार्गस्येति । विधि- विषयस्य कर्मणः । तथेति । ज्ञानिभक्तसाधारण्येनेत्यर्थः । गूढाभिसन्धिमिति । वरणश्रुत्युक्ता- साधारण्यभङ्गरूपम् । ताभ्यामिति । याज्ञवल्क्यार्तभागाभ्याम् । एतदिति वरणश्रुत्युक्तसाधारण्य- भञ्जनम् । अस्या इति । वरणश्रुतेः । पूर्वोक्तेत्यादीति । 'भूतेष्वि'ति । सूत्रभाष्योक्तस्य पूर्वा यत्रायं पुरुष इति, उत्तरा यत्रास्य पुरुषस्येति तयोः श्रुत्योर्विरोधस्य यः परिहारः परिहारान्तरं तस्यान्यथानुप-