अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2342, कुल 2600 में से
संदर्भ में पढ़ें८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० ५ सू० १७. हृदयमेवान्ववक्रामती'ति श्रुतेस्तस्यात्मन ओक आयतनं हृदयं तदग्रं पूर्वं प्रज्व- लति, पूर्वं तथा अप्रकाशमानमपि तदा प्रकाशत इति यावत् । तदा तत्प्रकाशितं द्वारं निर्गमनमार्गो यस्य तादृश उत्क्रामति । यतः श्रुतिस्तथाह 'तस्य हैतस्य हृदय- स्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वे'त्यादि । भाष्यप्रकाशः। मर्यादामार्गीयाणां सद्योमुक्तिर्द्विधा, हृदय एव साधनप्राबल्ये ब्रह्म प्राप्नोतीत्येकः, तदभावे ब्रह्माण्डमध्ये दशमद्वाराभिर्गतस्य तत्रैवेत्यन्यः । क्रममुक्तिर्ब्रह्माण्डभेदनेनोत्तरं ततो बहिः । तत्रा- द्यायां जीवस्य नोत्क्रमणम् । द्वितीयतृतीययोस्तदपेक्षासत्त्वात् तत्प्रकार उच्यत इत्यर्थः । एवं वृत्तान्तस्वरूपमुक्त्वा सूत्रं व्याकुर्वन्ति स इत्यादि । प्रकाशत इति । इन्द्रियरूपाभिस्तेजो- मात्राभिः प्रकाशते । सूत्रशेषं पूरयन्ति तादृश उत्क्रामतीति । श्रुतिस्तु बृहदारण्यके शारीर- ब्राह्मणे । 'स वा अयमात्मा अबल्यं नीत्य संमोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति, स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते- ऽथारूपज्ञो भवत्येकीभवति न पश्यतीत्याहुः । एवं न जिघ्रति, न वदति न शृणोति, न मनुते, न विजानातीत्याहुरित्युक्तम् । ततः, 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राण- मनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती'त्यादिना 'इति तु कामयमान' इत्यन्तम् । अर्थस्तु, यः पूर्वब्राह्मणे 'एभ्योऽङ्गेभ्यः संप्रमुच्ये'त्यादिना म्रियमाणावस्थ उक्तः, सोऽयं शारीर आत्मा जीवो यत्र यस्यां म्रियमाणावस्थायां अबल्यं नीत्य अबलभावं नितरां प्राप्य, संमोहमिव न्येति सम्मोहः संमूढता विवेकराहित्यं तन्नितरां प्राप्नोति, अथ तदा एनं करणस्वामिनम्, एते प्राणा वागादयोऽभिसमायन्ति आभिमुख्येन निकटं आयान्ति । स एतास्तेजो- मात्रा विषयप्रकाशकानीन्द्रियाणि चक्षुरादीनि समभ्याददानः सम्यगाभिमुख्येन गृह्णान उपसंहरमाणो हृदयं स्वायतनमेवान्ववक्रामति तल्लक्षीकृत्य आयाति, स यत्र वर्तते, तत्र एष चाक्षुषः पुरुष आदित्यांशश्चक्षुर्देवतारूपः पराङ् पर्यावर्तते स्वकार्याद्विमुखो भवति । अथ तदा 'स एष' इत्यनेनोक्तश्चक्षुरधिष्ठाता अरूपज्ञो भवत्येकीभवति करणग्रामेण । तदा न पश्यतीत्याहुः । पार्श्वस्था न पश्यतीत्याहुः । एवमग्रेपि । तदुत्तरावस्थामाह तस्ये- त्यादि । तस्य लिङ्गोपाधिकस्य ह एतस्य मुमूर्षोर्हृदयस्य एतत्स्थानस्य अग्रं नाडीमुखं प्र- द्योतते पूर्वमप्रकाशमपि तदानीं प्रकाशते । तेन प्रद्योतेन एष आत्मा शरीरान्निष्क्रामति रश्मिः। को वृत्तान्त इति । सङ्गतिबोधको वृत्तान्तः कथा । साधनेति । प्रमेयबलमपि द्रष्टव्यम् । तदभावे साधनप्राबल्याभावे । दशमेति । नवद्वाराणि देहे । दशमद्वारं (नाडीद्वारं ) हृदयाग्रद्वारम् तस्मात् । तत्रैवेति । हृदय एव । इति सद्योमुक्तिः । तदपेक्षेति । जीवोत्क्रमणापेक्षासत्त्वात् । स इत्यादीति । तेजोमात्रा इन्द्रियाणि । प्रकाशत इति । तेन प्रकाश्यमानं हृदयाग्रं भवति । मांसपिण्डं हृदयं आकाशरूपम् । 'काशृ दीप्ता'विति धातुपाठात् तत्सूक्ष्मत्वात् तेजोमात्राभिः प्रकाशत इत्यर्थः । पूर्वं तथा अप्रकाशमानमपीति भाष्यात् । पूर्वेति । ज्योतिर्ब्राह्मणे । इत्यादिनेति । 'प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैवे'ति । स्पष्टोऽर्थः । उपसंहारेति । उपसंहारं कुर्व्वाणः । अप्रकाशमानमिति । पररीत्योक्तम् । स्वमते तथा अप्रकाशमानं यतः । यमगतीति । यमकृता 2204