अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2343, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ८७ यद्यप्येतावत् सर्वजीवसाधारणम्, तथापि विद्वांस्तु नेतरवदितरनाड्या निष्क्रामति, किन्तु, शताधिकया एकशततम्या नाड्या मूर्धन्या निष्क्रामति । 'शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ- ऽन्या उत्क्रमणे भवन्ती'ति यतः श्रुतिराह । अत्र हेतुमाह । हार्दानुगृहीत इति । हेत्वन्तर्गर्भं विशेषणम् । 'गुहां प्रविष्टौ परमे परार्धे' इति श्रुतेर्हृदयाकाश- सम्बन्धी यः परमात्मा तदनुग्रहात् तथैव भवतीत्यर्थः । अनुग्रहे हेतुः विद्यासामर्थ्यादिति । तस्या विद्यायाः शेषभूताङ्गभूता या गतिः प्रव्रजनरूपा, तच्छेषभूतैव या भगवत्स्मृतिपरम्परा च ताभ्यां च यो भगवदनुग्रहस्तेन तथेत्यर्थः ॥ १७ ॥ इति चतुर्थाध्याये द्वितीयपादे पञ्चमं तदोकोऽधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। निर्गच्छति । चक्षुराद्यन्यतमेभ्यः शरीरदेशेभ्यः । तदुत्तरव्यवस्थामाह तमुत्क्रामन्तमित्यादि । तं जीवात्मानम् । प्राण आसन्यः । प्राणा इन्द्रियाणि । अयं च निष्क्रमणप्रकारो यमगति- रहितानाम् । यमगतीनां तु, 'अङ्गुष्ठमात्रं पुरुषं निष्कर्ष यमो बला'दित्यादिवाक्यात् पिण्डित- करणग्रामस्य जीवस्य बलान्निष्क्रमणम् । एवं सति यद्यप्येतावद् ओकोग्रज्वलनादिकं यमगतिरहित- चर्षणीजीवानां विदुषां च साधारणम्, तथापि, विद्वांस्तु नेतरवदितरनाड्या निष्क्रामति, किन्तु शताधिकयेत्याद्युक्तमार्गेण । श्रुतिस्तु छान्दोग्ये दहरविद्यास्या । शेषं स्फुटम् । तथा च 'स यदास्माच्छरीराभिनिष्क्रामती'ति श्रुत्युक्तो निष्क्रमणप्रकारो विद्वदविदुषोस्तुल्यो वा विशेषवान् वेति सन्देहे, कामयमानताया उभयोस्तुल्यत्वेन शारीरब्राह्मणोक्तरीत्या तुल्य एवेति प्राप्ते । हृदयाग्रप्रद्योतनपर्यन्तं विद्वदविदुषोस्तुल्यो निर्गमनमार्गः प्रकारश्च विदुषोऽतिरिक्त इति सिद्धान्तो बोधितो ज्ञेयः । एवमेतेन क्रममुक्तिप्राप्तॄणां जीवस्य शरीराभिर्गमनप्रकार उक्तः । तत्र ये मूर्ध्ना निष्क्रामन्ति, ते दशमद्वारं भित्त्वा तत्रैव सद्यो ब्रह्मणि लीयन्ते । तथा सति करण- ग्रामो भूतेष्वेव लीयत इत्यर्थादायाति ॥ १७ ॥ इति पञ्चमं तदोकोधिकरणम् ॥ ५ ॥ रश्मिः। गतिर्यमगत्तिस्तद्रहितानाम् । पिण्डितेति । पिण्डितः पिण्डीभावो विद्यते यत्र । तारकादिभ्य इतच् । करणानामिन्द्रियाणां ग्रामः । यमगतीति । पृष प्रजननैश्ययोः । चर्षणयो अप्रमणशक्तयः तद्युक्तानां जीवानाम् । इत्याद्युक्तमार्गेणेति । इत्यादिभाष्योक्तमार्गेण । शेषमिति । मूर्धानमिति । मूर्धानं लक्षीकृत्य । हेत्वन्तर्गर्भमिति । हेतुरन्तर्गर्भो यस्य विशेषणस्य । हार्दानुगृहीतत्वादित्यर्थः । हार्दानुग्रहमाहुः गुहामिति । तथैवेति । हार्दानुगृहीत एव । तच्छेषेति सूत्रांशं विवृण्वन्ति स्म तस्या इति । गतिर्गमनं तत्प्रव्रजने प्रधानमिति तुरीयत्वाच्च गतिः प्रव्रजनम् । मुख्याधिकारत्वाच्च । संन्यासनिर्णयग्रन्थोक्तम् । तत्तु आयुष उत्तरभागेऽवशिष्टे पञ्चविंशतिवर्षे भवति । पारिभाषिकं प्रव्रजनं तु गृहस्थाश्रमेप्यस्ति । काम्यकर्मसर्वकर्मफलत्यागात् । तदुक्तं गीतायां 'काम्यानां कर्मणां त्यागं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा' इति । अनुस्मृतेरर्थमाहुः तच्छेषेति । उक्तभक्त्यादिविद्याशेषभूता भगवत्स्मृतिपरम्परायां अनुस्मृतिर्भवति । सा चानुस्मृतिर्नैन्द्योकरीत्या ग्राह्या । श्रवणादीत्यनुक्त्वा स्मरणपरम्परोक्तेरयं भावः । तुरीयाश्रमसाहचर्याद् भक्त्या प्रसङ्गे हरौ योगप्रयुक्तेः । सैकादशचतुर्दशाध्याये । 'नान्यानि चिन्तयेद्भूयः सुस्मितं भावयेन्मुखम् । तत्र 2205