अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2346, कुल 2600 में से
संदर्भ में पढ़ें९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० २ अ० ७ सू० १९. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥१९॥ (४।२।७). विदुष उत्क्रमणे हार्दानुग्रहकृतो यथा विशेषः, तथा कालविशेषकृतोपि विशेषो भविष्यतीत्याशङ्क्य तन्निरासमाह। तत्राहोरात्रकृतोऽयनकृतो वा स भवेत्। तत्राद्यकृतो नास्तीत्याह नेति । तत्र हेतुः । सम्बन्धस्येत्यादि । अनुग्रहहेतुभूतो यः पूर्वोक्तो गत्यनुस्मृतिसम्बन्धस्तस्य यावद्देहभावित्वात् तत्कार्यस्यानुग्रहस्यापि तथात्वात् कालस्याप्रयोजकत्वमित्यर्थः । अत्र प्रमाणमाह । दर्शयति यतः श्रुतिः। 'तमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ती'ति ॥ १९ ॥ हार्दानुग्रहस्य मुक्तिहेतोर्विद्यमानत्वादयनविशेषोप्यप्रयोजक इत्याह । भाष्यप्रकाशः। निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥ इत्या- शङ्क्येति । एवं निशि नेत्यनेनाशङ्क्य । तथा च निशीतिपदं मुक्तिप्रतिबन्धककालविशेषोप- लक्षणम् । तत्र न आदित्यद्वारेण गमनम् । अतो ज्ञानिना मुक्त्यर्थं योगादिना कालः प्रतीक्षणीय इत्याशङ्केत्यर्थः । सिद्धान्तं व्याकुर्वन्ति अग्रेत्यादि । अर्थस्तु स्फुटः । अन्ये तु, सम्बन्धस्य 'यावद्देहभावित्वा'दित्यत्र नाडीसम्बन्धस्य तथात्वं व्याकुर्वन्ति । 'दर्शयती'त्यत्र, 'अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता'इति छन्दोगश्रुतिं दर्श- यति । तत्र यद्यपि पूर्वसूत्रोक्तं रश्म्यनुसारित्वमेव, 'निशि ने'त्यनेनाक्षिप्यत इति प्रतीयते, न तु कालविशेषनिषेधः, कालान्तरस्य सहकारित्वापादनं वा, तथाप्ययनसूत्रे रश्म्यभावशङ्कानुदयेन तत्रैतत्सूत्रोक्तस्य तत्परिहारहेतोरसङ्गत्त्या, 'अतश्चे'त्यतिदेशासङ्गतिरिति तत्र उदीक्षानुपपत्तेर्विद्याया अपाक्षिकफलत्वस्य मृत्योरनियतकालत्वस्य चेति कल्पितहेत्वन्तराध्याहारापेक्षया अतिदेश- सामञ्जसाय सम्बन्धपदे हार्दानुग्रहजनकगत्यनुस्मृतिसम्बन्धग्रहणस्यैव युक्तत्वाच्चिन्त्यम् । तथा च, 'रश्म्यनुसारि' सूत्रेपि स हेतुर्बोध्यः ॥ १९ ॥ रश्मिः। निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वात् दर्शयति च ॥ १९ ॥ अग्रे- त्यादीति । तत्राहोरात्रकृत इत्यपि भाष्ये पाठः । स्फुट इति । पूर्वोक्त इति । तदोकोग्रसूत्रोक्तः । यावदिति । साकल्ये । देहानां साकल्यं यावद्देहम् । अव्ययीभावः । यावद्देहं भावी यावद्देहभावी- तत्त्वात् । 'को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत् सर्वतोमृत्युमुपास्यममरोत्तमै'रिति वाक्यात् । एवं स्फुटः । ता आस्विति । ता रश्मयः । आक्षिप्यते इति । नञर्थनिषेधप्रति- योगित्वेनाक्षिप्यते । रश्म्यभावेति । रश्म्यनुसारित्वनिषेधशङ्कानुदयेन । असङ्गत्येति । अर्थ- द्वारासङ्गतिस्तया । अतिदेशेति । हेत्वतिदेशासङ्गतिः । तत्र उदीक्षेति । अयनसूत्रे वक्ष्यमाणे 'यद्यपि रात्रावुपरतोऽहरागममुदीक्षेते'त्युक्तोदीक्षाऽहरागमोदीक्षा तस्या अनुपपत्तेः उत्तरायणोदीक्षा- सत्त्वात् । तथा विद्याया पक्ष उत्तरायणस्तत्सम्बन्धिपाक्षिकः, न पाक्षिकं फलं यस्याः सा अपाक्षिक- फला तत्त्वात् । तत्सम्बन्धि तदग्रिमं यत्