अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2347, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१ अतश्चायनेपि दक्षिणे ॥ २० ॥ स्पष्टार्थमिदम् ॥ २० ॥ भाष्यप्रकाशः। अतश्चायनेपि दक्षिणे ॥ २० ॥ स्पष्टार्थमिति । चोऽवधारणे 'नेति चेन्ने'ति पूर्व- सूत्रादनुवर्तते । तथा च 'दक्षिणेऽयने ने'ति चेन्नेति पूर्वपक्षस्य, 'अतश्चे'त्यनेनातिदिष्टस्य तत्परिहार- हेतोश्च स्फुटत्वाच्चेत्यर्थः ॥ २० ॥ रश्मिः। ज्ञस्याय अत इति सौत्रातिदेशस्य वा सामञ्जसाय । स इति । हार्दानुग्रहजनकगत्यनुसृतिसम्बन्धः। रश्म्यनुसारी विद्वानेव निष्क्रामति हार्दानुग्रहजनकगत्यनुसृतिसम्बन्धात् । अपरेषां तदोकोऽग्रज्वलन- मेकसूत्रमधिकरणम् । अर्थस्तु न विरुद्धः । रश्म्यनुसारित्यधिकरणं द्विसूत्रम् । अतश्चायनाधिकरणं द्विसूत्रमिति । 'अथैतैरेव रश्मिभिरूर्ध्वमुत्क्रामती'त्यत्र रश्म्यनुसारित्वमुक्तम्, तत्किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम्, आहोस्विदहन्येवेति संशये, अविशेषश्रवणादविशेषेणैव रश्म्यनुसारिति प्रज्ञायते इति रश्म्यनुसारिसूत्र उक्तम् । 'निशि नेति'सूत्रे अस्त्यहनि नाडीरश्मिसम्बन्ध इति । अहनि मृतस्य स्याद् रश्म्यनुसारित्वम्, रात्रौ तु प्रेतस्य न स्यात्, नाडीरश्मिसम्बन्धविच्छेदा- दिति चेत्, न, नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् । शिराकिरणसम्पर्कः । दर्शयति चैतमर्थं श्रुतिः । 'अमुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते, अतोऽमु- ष्मिन्नादित्ये सृप्ता' इति । तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारित्वमित्युक्तम् । अतश्चायनाधिकरणे द्विसूत्रे प्रथमे अत एव उदीक्षानुपपत्तेरपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योर्दक्षिणायनेपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलमित्युक्तम् । द्वितीये 'यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभे'ति कालप्राधान्येनोपक्रम्याहरादिकालविशेषः स्मृतावपुनरावृत्तये नियमितः । कथं रात्रौ दक्षिणायने वा मृतोनावृत्तिं यायादिति । अत्रोच्यते । 'योगिनः प्रती'ति । योगिनः प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते । स्मार्ते चैते योग- साङ्ख्ये । न श्रौते । अतो विषयभेदात् प्रमाणविशेषाच्च नास्यस्मार्तस्य कालनियोगस्य श्रौतेषु विज्ञाने- ष्क्वतार इत्युक्तम् ॥ १९ ॥ अतश्चायनेपि दक्षिणे ॥ २० ॥ चोऽवधारण इति । अन्यभाष्यामृतोयमर्थः । इदमधिकरणान्तरमिति शाङ्कराः, अतः 'पूर्वपक्षस्ये'ति वक्ष्यन्ति । भास्कररामानुजाचार्याणां तु नाधि- करणान्तरम् । अतो नात्राधिकरणसमाप्तिः कृता । अतः सन्दिग्धमधिकरणमिदम् । ब्रह्मविदो ब्रह्मप्राप्तिर्दक्षिणेऽयने भवति, उत हार्दानुग्रहमात्रेणेति सन्देहे पूर्वपक्षः दक्षिणेऽयनेपि न, किन्तु वेदान्तविज्ञानेनावरणभङ्गमात्रमिति चेत्, न । अतश्च अत एव । हार्दानुग्रहजनकगत्यनुसृतिसम्ब- न्धात् । अतो हार्दानुग्रहान्मुक्तिहेतोः पुष्टिस्य मुक्तिः, दक्षिणायनादिकालोप्यप्रयोजक इत्यर्थः । ब्रह्मविद् यद्यपि ज्ञानमार्गी, तथापि भक्तावपि ज्ञानपदस्य गीतायां प्रयोगात् सुष्ठु । नारायणपरायणस्य दुर्लभत्वादेवमुक्तम् । एतदेवोक्तं तथा चेत्यादिना, अतश्चेत्यनेनेत्यादिना च । अनधिकरणत्वे तु, अतश्च अत एव निशि मृतस्यापि विदुषो दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिः सिद्धा । विद्याकर्म- सम्बन्धस्य यावद्देहभावित्वादिति रामानुजभाष्ये । किञ्च, अधिकाशङ्का तु, 'अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छती'ति दक्षिणायने मृतस्य चन्द्रप्राप्ति- 2209