अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2357, कुल 2600 में से
संदर्भ में पढ़ेंती'ति चेत्तरा । 'सूर्यद्वारेण ते विरजाः प्रयान्ती'ति चान्या । एवमनेकेषु मार्गेषु सत्स्वर्चिरादेरेवोक्तिः कुत इति । तत्र सर्वेषां पारिभाषिकमर्चिरादित्वम्, अत एव 'अथैतयोः पथोर्न कतरेण च ने'ति मार्गद्वयभ्रष्टानामतिकष्टं 'जायस्व म्रिय- स्वेति तृतीयं स्थान'मित्युक्तम्, अन्यथानेकेषां मार्गाणामुक्तानां श्रूयमाणत्वादस्य तृतीयत्वं नोच्येत, अतः प्रकरणभेदाद्भिन्नोपासनशेषत्वान्मिथोऽनपेक्षा भिन्ना एवैते मार्गा ब्रह्मप्रापका इति मन्तव्यमिति चेत् । तत्रोच्यते । न हीयं परिभाषा सर्वेषु श्रुतास्ति, यतस्तथोच्येत । अतो लाघवा- दनेकपर्वविशिष्ट एक एव मार्ग इति मन्तव्यम्, न तु पर्वभेदेन मार्गभेद इति । गौरवप्रसङ्गात् । न चैवम् 'अथैतैरेव रश्मिभि'रित्यवधारणानुपपत्तिरिति वाच्यम् ।
भाष्यप्रकाशः। ब्राह्मणे पर्यङ्कविद्यास्या । इतरेति । बृहदारण्यकेऽनात्मोपासनगतिफलकथने । एवमन्यापि पञ्चमी प्रथममुण्डकसमाप्तौ द्रष्टव्या । एवं मार्गभेदबोधिकाः श्रुतीरुपन्यस्य सूत्रेऽर्चिरादेरेवोक्तौ हेतुं निर्णेतुं पृच्छति एवमित्यादि । स्वयं हेतुं कल्पयित्वा वास्तवैकत्वस्य हेतुत्वं दूषयति । तत्रेत्यादि । अर्चिराद्युक्तिहेतुविचारे । सर्वेषां मार्गाणामर्चिरादित्वं पारिभाषिकम्, मुक्ति- मार्गा अर्चिरादिपदेन व्यवहर्तव्या इति साङ्केतिकनियमसिद्धम्, न तु वास्तवम् । अतः पारि- भाषिकत्वादेव हेतोः 'अथैतयोः पथो'रिति द्वित्वम्, 'जायस्वे'त्यस्य तृतीयस्थानत्वं च श्रुता- वुक्तम् । अन्यथा वास्तवैकर्चिरादित्वे बहूनामुक्तानां मार्गाणां ब्रह्मप्रापकतया श्रूयमाणत्वादस्य तृतीयत्वं पथोरिति द्वित्वं च नोच्येत । अतस्तृतीयत्वादिपीडारूपाद्धेतोस्तेष्वर्चिरादित्वं पारि- भाषिकमङ्गीकृत्योक्तहेतुद्वयाद् ब्रह्मप्रापका मार्गा बहव एवेति मन्तव्यमित्यर्थः । एवं पूर्वपक्षी स्वमतमुक्त्वा तत्रैकदेशिकृतं समाधिं प्रतिक्षेप्तुमुपक्षिपति तत्रोच्यत इत्यादि । तथोच्येतेति । पारिभाषिकत्वमुच्येत । अतो लाघवादिति । पारिभाषिकत्वेनार्चिरादित्वस्य वक्तुमशक्यत्वात् पर्वप्रत्यभिज्ञानलिङ्गेन मार्गैक्याङ्गीकारे लाघवात् । गौरवप्रसङ्गादिति । मार्गाणामनेकत्वं तेषु पर्वन्यूनाधिक्येन कस्यचिन्निकटत्वम्, कस्यचित् दूरत्वम्, निकटमार्गत्या- गेन दूरमार्गगमने उपपत्तिकल्पनम्, निकटत्यागे चोपपत्तिकल्पनमित्येवं तथात्वादित्यर्थः । पुनर्मार्गानेकत्वमाशङ्क्य निषेधति न चैवमित्यादि । एवमिति । मुक्तिमार्गस्यैकत्वे ।
रश्मिः। त्यादीति । बहुवचनं स्मार्तम् । यथाहूः 'इति श्रीमद्भगवद्गीतासूपनिषत्सु' इति । अत एवेति भाष्यवि- वरणम् । अत इति । श्रुताविति । पञ्चाग्निविद्याप्रकरणे छान्दोग्ये 'अथैतयोः पथोर्न कतरेण च न तानी- मानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीयꣳस्थान'मिति श्रुतौ । श्रुत्यर्थस्तु कतरेण चेति प्रश्नः । नकारद्वयस्य न यान्त्यपि नेति शेषेण योजना । यद्वा एतयोः पथोः न कतरेण नेति प्रश्नः । उत्तरम् । तानीमानीति तृतीयस्थानमिति । अन्यथेति भाष्यविवरणे । अन्यथेति । उक्तेति । 'अर्चिरादिने'ति सौत्रपदोक्तहेतुद्वयात् । वास्तवपारिभाषिकहेतुद्वयात् । पारीति । पारिभाषिकत्वमुच्येतेति पाठः । न तूच्यत इति पाठः । पर्वप्रतीति । तानि पर्वाणीति प्रत्यभिज्ञानलिङ्गेन । पर्वन्यूनेति । पर्वन्यूनत्वे कस्यचित्फलस्य निकटत्वं पर्वाधिक्ये फलस्य दूरत्वम् । उपपत्तीति । अधिकाररूपोपपत्ति- कल्पनम् । तथात्वादिति । गौरवप्रसङ्गात् । एकत्व इति । एतैरेव रश्मिभिरन्यमार्गेभ्यः पूर्वं आक्रमत