अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2358, कुल 2600 में से
संदर्भ में पढ़ें१०० श्रीमद्ब्रह्मसूत्राणुभाष्यम्। [अ० ४ पा० ३ अ० १ सू० १. तस्याः श्रुतेरुत्क्रमणमात्रमार्गनिरूपकत्वात् । तथाहि । तत्रोपक्रमे हि 'अथ यत्रै- तदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत' इत्युच्यते । एतस्मात् पुरस्तात् 'अथ या एता हृदयस्य नाड्य' इत्युपक्रम्य पिङ्गलस्यादित्यत्वमुक्त्वा, 'तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता' इत्यन्तेन वाक्येन नाडीषु रश्मिप्रचारमुक्त्वा, अग्रे 'अथ यत्रैतदस्मा'दित्याद्युक्तम् । उपसंहारे च 'शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका, तयोर्ध्व- मायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ती'ति । एवमुपक्रमोपसंहाराभ्या- मुत्क्रमणमात्रमार्गनिरूपकत्वम्, न तु ब्रह्मप्रापकमार्गस्य, अतस्तदनुपपत्तिपरि- हारोऽनर्थकः । नन्वनेकपर्वविशिष्टत्वेन मार्गस्यैकत्वे तं निरूपयन्ती श्रुतिः क्वचित् किञ्चित् पर्व निरूपयति, क्वचिन्नेति कथम् । उपसंहारेण प्राप्स्यन्त इति तात्पर्येण तथेति चेद् ब्रवीषि, तदा शाखान्तरमविदुषस्तदसम्भवेन तं प्रति श्रुतेर्न्यूनता- पातः । न हि सर्वशाखाविदं प्रत्येव कथनमिति वक्तुमुचितम् । तस्यासम्भवात् । अतः स्वस्वशाखाज्ञानवन्तं प्रत्येव तथा । अध्ययनविधेरपि तावन्मात्रपरत्वात् । भाष्यप्रकाशः। निषेधे हेतुः । तस्या इत्यादि । तत्रेति । रश्मिवाक्ये । हिंहेतौ । इत्युच्यत इति । शरीरादुत्क्रम उच्यते। नन्वेतस्मात् पूर्वं रश्मिनाडीप्रचारकथने महापथदृष्टान्तेन तासां मार्गत्वमपि बोध्यत इति नैवं वक्तुं युक्तमित्याशङ्कायामाह एतस्मात् पुरस्तादित्यादि । तथा च महापथदृष्टान्तेऽप्यन्ते, 'एत- स्मा'दित्यादिनोत्क्रान्तिरेवोक्तेति तन्मार्गत्वमेव तासां युक्तमित्यर्थः । युक्त्यन्तरमाह उपसंहारे चेत्यादि । एतदेव निगमयति एवमुपक्रमेत्यादि । तदनुपपत्तिपरिहार इति । ब्रह्मप्रापक- मार्गत्वानुपपत्तिपरिहारः । एवमेकमार्गत्वे साधिते तद् दूषयितुं पूर्वोक्तिप्रकारे पृच्छति नन्वि- त्यादि । समाधिमुद्भाव्य दूषयति उपसंहारेणेत्यादि । तस्यासम्भवादिति । वेदाना- मन्तत्वेनेदानीं कलिकृतबुद्धिह्रासेन च सर्वशाखावित्त्वस्यासम्भवात् । एतदुपष्टम्भायाह अध्ययने- त्यादि । स्वस्खासाधारणत्वेन पितृपितामहादिपरम्पराप्राप्ता शाखा स्वाध्याय इति योगस्य सर्वै- रश्मिः। इत्यवधारणानुपपत्तिरित्यन्वयः। निषेध इति। न च वाच्यमिति निषेधे। हिंर्हेताविति। यस्मादित्यर्थः। श्रुतिस्त्वथ यत्रेत्यादिः । नैवमिति । मुक्तिमार्गस्यैकत्वं न । महापथेति । श्रुतिस्तु पूर्वं व्याख्याता । तन्मार्गत्वमुत्क्रमणमार्गत्वम् । पूर्वोक्तीति । विषयसप्तमी । पूर्वोक्तप्रकारविषयकः प्रश्नानुकूलो व्यापारः । तथा च पूर्वोक्तिप्रकार इति प्रश्नस्य विषयपूरक इति नैकदेशान्वयः । अनन्तत्वे- नेति । 'अनन्ता वै वेदा' इति श्रुतेः । कलिकृतेति । द्वादशस्कन्धे कालेनाग्रहणं दृष्टेति । भाष्ये । तथेति । निरूपणम् । प्रकृते । स्वस्यासाधारणत्वेनेति । 'स्वाध्यायोऽध्येतव्य' इत्यध्ययनविधौ स्वाध्यायपदार्थः सायणीयानुसारेणोक्तः । अत उक्तं सर्वैरिति । सुष्ठु आसमन्ताद्ध्यायः स्वाध्याय 2218