अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2359, कुल 2600 में से
संदर्भ में पढ़ेंशाखान्तरसंवादिपर्वकथनानुपपत्तिश्च । उपसंहारेणैव तस्यापि प्राप्तिसम्भवात् । अतो विरुद्धदिक्कानां स्वस्वमार्गेणैकग्रामप्राप्तिवदिहापि भवितुमर्हति खातद्वयेन सर्वैर्मार्गैर्ब्रह्मप्राप्तिः । न चैवम् 'अथैतयोः पथो'रिति द्विवचनानुपपत्तिः, 'जायस्व म्रियस्वे'त्यस्य तृतीयत्वं चानुपपन्नमिति वाच्यम् । अर्चिरादिकमुक्त्वा 'उपसं- हरति 'एष देवयानः पन्था' इति, श्रुत्यन्तरे च, 'स एनं देवयानं पन्थानमापद्याग्नि- लोकमागच्छती'ति । तथा च ब्रह्मप्रापकाः सर्वे मार्गा देवयाना इत्युच्यन्ते । 'दैवी सम्पद्विमोक्षाये'ति भगवद्वाक्याद्दैव्यों सम्पदि ये जाताः, ते देवा इत्यु- च्यन्ते तेषां यानं गमनं यत्रेति ते सर्वेपि मार्गा देवयानशब्देनोच्यन्ते । द्वितीय- स्त्वविशिष्टः । एवं द्वित्वं त्रित्वं चोपपद्यते । न चोक्तरीत्या लाघवादेक एव स मन्तव्यः । स्वतःप्रमाणभूता हि श्रुतिः । सा येन यदा या श्रुता, तदर्थावधारणे द्वितीयस्या अनुपस्थितत्वान्न लाघवगौरवतद्विचारावसरः । क्वचिदुपस्थितौ चोक्तबाधकैर्नापसंहारानवकाशः । अपरं च । ब्रह्मविदः क्रममुक्तौ गन्तव्यो मार्गो ह्ययमुपदिश्यते । तत्तल्लोके तदानन्दानुभवश्चावश्यकः । तथा चोपासनभेदात् फलभेदस्यावश्यकत्वान्मार्ग- भेदोपि तथेति सर्वेष्वेकरूपफलप्रसञ्जक उपसंहारो न युक्तः । किञ्च । उपासने भाष्यप्रकाशः। राङ्गत्वेन शाखाप्रणयनस्य च तदर्थत्वेन तथात्वात् । उपसंहारेणैव तस्यापि प्राप्ति- सम्भवादिति । उपसंहारे हि प्रयोजको वस्त्वभेदः, प्रयोजनाभेदश्च । तस्योभयसत्तया कृते उप- संहारे तेनैवानुक्तपर्वप्राप्तिसम्भवात् । एवं तदुक्तं दूषयित्वा स्वमतं स्थापयति अतो विरुद्धदिक्के- त्यादि । द्विवचनाद्यनुपपत्तिं परिहरति न चेत्यादि । उपपद्यत इत्यन्तम् । लाघवं दूषयति न चोक्तेत्यादि । येनेति । यच्छाखाध्यायिना । बहुशाखाध्यायिनोऽनेकमार्गोपस्थितौ दोषताद- वस्थ्यमाशङ्क्य परिहरति क्वचिदित्यादि । उक्तबाधकैरिति । अध्ययनविधेः स्वशा- खाध्ययनमात्रपरत्वम्, तदध्येतुस्तावन्मात्रकरणे सर्वशाखार्थकरणपूर्तिः, शाखान्तरसंवादिपर्वकथ- नानुपपत्तिश्चेत्येवंरूपैः । एवं परोक्तं परिहृत्य स्वोक्तौ युक्तिमाह अपरं चेत्यादि । आवश्यक इति । तदर्थमेव तत्कथनात् पुराणे तथा प्रसिद्धेश्चावश्यकः । तथेति । आवश्यकः । एवं स्वमतं स्थापयित्वा उपसंहारपक्षे बाधकमप्याह किञ्चेत्यादि । ननूपासने फलभेदजनकः प्रकारभेद उपसंहारप्रयोजकः रश्मिः। इति स्वमते पत्रावलम्बने प्रकाशे च जिज्ञासाधिकरणे । तदर्थत्वेनेति स्वाध्यायार्थत्वेन । तथात्वादिति । तावन्मात्रपरत्वात् स्वशाखाध्ययनमात्रपरत्वात् । उपसंहार इति । एकवस्तुप्रति- पादकचरमवर्णध्वंस उपसंहारस्तस्मिन् । प्रयोजनेति प्रयोजनमर्थनिर्णयः, तस्य संजातविरोधिन उपक्रमाद् भेदः, असंजातविरोधित्वेनापि भेदः । तस्येति अभिन्नवस्तुनः । उभयसत्तया वस्त्वभेद- सत्तया अर्थनिर्णयसत्तया च । तेनैवेति उपसंहारेणैव, न तु शाखान्तराध्ययनेन । विरुद्धदिक्काना- मिति । यथा पूर्वादिदिक्कानां एकस्य श्रीगोवर्धननाथद्वारस्य प्राप्तिः । न चेत्यादीति । द्वितीय इति धूममार्गः । अविशिष्टो मार्गान्तराविशिष्टः । पुराण इति । द्वितीयस्कन्धे क्रममुक्तौ । तथा चेति । द्वितीयार्थबोधकचकारघटितत्वे सति । किञ्चेत्यादीति । उपासने उपसंहारपादे धर्मोप-