सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2362, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2362

भूर्लोक एव च भवति, अत आदौ तत्रत्यो भोगः, ततस्तदुपरितनलोकानाम् । 'पृथिवी दीक्षा तयाऽग्निर्दीक्षया दीक्षितः' । 'यथा पृथिव्यग्निगर्भे'त्यादिश्रुतिभ्यो भूरग्निप्रधाना भवति, अतोऽर्चिराद्यमग्निलोकमादौ गच्छति । ततः कर्मो- पासनयोरहरादिसंवत्सरान्ते काले विहितत्वात्तत्र तत्र गत्वा भुङ्क्ते । तथा च संवत्सरान्तानां भूसम्बन्धित्वेनाविशेषात् तन्मध्ये वायोर्न प्रवेशः । भूर्लोका- दुपर्यन्तरिक्षलोकस्तदुपरि द्युलोकः, तथा च 'वायुरन्तरिक्षस्याधिपति'रिति श्रुतेः, 'सूर्यो दिवोऽधिपति'रिति श्रुतेस्तयोः पौर्वापर्ये विशेषो हेतुरस्तीत्यादित्यलोकात् पूर्वमुक्तरीत्या भूर्लोकमध्यपातिसंवत्सरस्य परस्ताच्च वायुर्निवेशयितव्य इत्यर्थः । ननु 'तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह'रित्यादिश्रुतिरुक्तमुक्तमनूद्यानूद्यापादानत्वं वदन्ती पूर्वोत्तरयोरव्यवधानं सूचयतीति नोक्तमादरणीयमिति चेत् । सत्यम् । यस्योपासकस्य न वायुलोकभोगः, तं प्रति सोक्तिः, यस्य तु तद्भोगः, तस्योक्त- रीतिमार्गैक्यादिति नानुषपत्तिः काचित् । केचित्तु, 'स एवं देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलोकं स वरुणलोक'मित्यविशेषेण वायुरुपदिश्यते । मिथःपौर्वापर्यप्रापकपदाभावात् ।

भाष्यप्रकाशः । पर्ये विशेष इति ताभ्यां तथेत्यर्थः । अत्र 'नन्वि'त्यादिना छान्दोग्यश्रुतिविरोधमाशङ्क्य समाधत्ते सत्यमित्यादि । सोक्तिरिति । छान्दोग्योक्ता अव्यवधानोक्तिः । उक्तरीतिरिति । व्यासोक्त- रीतिः । तथा च भोक्तृविशेषेणाव्यवधानव्यवधानसम्भवाच्च श्रुतिविरोधरूपानुपपत्तिरित्यर्थः । एवं स्वमतेन व्याख्यायात्र शाङ्करादिमतमुपक्षिपन्ति केचित्त्वित्यादि । मिथःपौर्वा- पर्यप्रापकपदाभावादिति । तादृशपञ्चम्यन्तपदाभावात् । तथा च सोऽत्राविशेषपदार्थः । 'यदा

रश्मिः । ज्ञानम्, आधिदैविकचित्तशुद्धौ भक्तिरिति सुबोधिन्यां अस्य पक्षस्य 'नैतादृशा भक्ता' इति निबन्धे- ऽनङ्गीकारात् तन्न्यायेनोपासनाः निवेश्योक्तम् । एवेति । मनुष्याणां न तु देवानामिति न 'तदुपर्यपी'- त्यधिकरणविरोधः । यदि पृथिव्यग्निगर्भा स्यात्, तदा पृथिवीदीक्षयामग्निदीक्षितो भवेदित्याशयेनाहुः यथा पृथिव्यग्निगर्भेति । तथा च पृथिव्या दीक्षा तया दीक्षया पृथिवीगर्भोऽग्निदीक्षित इत्यर्थः । दीक्षां इतो दीक्षितः । अहरादीति । 'अहरहः सन्ध्यामुपासीत' । 'प्रातर्मध्यान्दिने सायं विष्णुपूजा स्मृता बुधैः । यथा सन्ध्या तथा विष्णुपूजा नित्ये'ति नारदीये । 'नियतस्य तु संन्यासः कर्मणो नोप- पद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः' इति गीता । 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'- मित्यपक्रम्य 'मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीताताण्डववादित्रगोष्ठीभिर्मद्महोत्सवः । यात्रा- बलिविधानं च सर्ववार्षिकपर्वस्वि'ति श्रीभागवते । सर्वेषु वार्षकेषु पर्वसु च । एवमहरादि- संवत्सरान्ते काले विहितत्वात् तत्र तत्रेति । जगन्नाथादौ । श्रीगोवर्धननाथादौ भक्ति- शरणमार्गाभ्याम् । एवं चादित्यमित्यनेन पदेन विश्रामस्थानमपि । 'स तत्र विजिहीत' इति बृहदा- रण्यकात् । स सूर्यः तत्र आगमनस्थले विजिहीते छिद्रं कुरुते । उक्तरीत्येति । छान्दोग्ये पञ्चाग्नि- विद्योक्ता 'र्चिष' इत्यादिश्रुतिक्रमेण । तथात्वादिति पौर्वापर्यात् । तथेति वायुमब्दान्निवेशयेत् । अग्रेति सूत्रार्थे । छान्दोग्येति उक्तश्रुतिविरोधम् । अध्यवेति । वायुतो न तथा । न श्रुतीति । उपा-