अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2363, कुल 2600 में से
संदर्भ में पढ़ें'यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छती'ति श्रुत्या आदित्यात् पूर्वो वायुर्विशेषेणोपदिश्यत इत्यब्दादित्ययोरन्तराले निवेशयितव्य इत्यर्थं वदन्ति । स चिन्यते । यथा तेन 'स ऊर्ध्व आक्रमते स आदित्यमागच्छती'ति विशेषोपदेश इत्युच्यते, तथा 'स वरुणलोक'मित्यत्रापि वक्तुं शक्यम् । न च, 'स आदित्यमागच्छती'त्यत्र तच्छब्दस्य पूर्वपरामर्शित्वाद्वायुलोकगतस्यैव पूर्वत्वात् तथेति वाच्यम् । 'अग्निलोकमागच्छति स वायुलोकं स वरुणलोक'मित्यत्रापि भाष्यप्रकाशः। वै पुरुष' इत्युक्तं तेनोर्ध्वाक्रमणमादित्ये गमनं च यदुच्यते, स विशेषपदार्थः । ताभ्यामब्दा- दित्ययोरन्तराले वायुनिवेशं वदन्तीत्यर्थः । श्रुत्यर्थस्तु यदा यस्मिन् वै निश्चयेन पुरुषो ब्रह्मविद् अस्माल्लोकाच्छरीरात् प्रैति लोकान्तरं गच्छति, तदा स पुरुषो वायुमागच्छति प्राप्नोति । तस्मै आगताय, स वायुः तत्र तदागमनस्थले विजिहीते पूर्वं स्तिमितोऽपि तदानीं स्वावयवान् विगमयति तस्य गमनार्थम् । विगमनस्थलपरिमाणमाह, यथा रथचक्रस्य खम् यावत्परिमाणं रथचक्रस्य छिद्रम् । तेन मार्गेण स पुरुष ऊर्ध्वं आक्रमते, स आदित्यमागच्छति प्राप्नोतीति । एवं तद्व्याख्यातमर्थमनूद्य तदुक्तस्य विशेषस्य विशेषत्वं युज्यते, न वेति विचारयन्ति स चिन्यत इत्यादि । इत्यत्रापि वक्तुं शक्यमिति । ऊर्ध्वाक्रमणस्यार्थसिद्धत्वात्तच्छब्दस्य तत्रापि सत्त्वाद्द्वक्तुं शक्यम् । तथाचोर्ध्वाक्रमणतच्छब्दोक्तपूर्वपरामर्शयोर्विशेषपदार्थत्वाङ्गीकारे वाजसनेयिभिर्वाय्वनन्तरमादित्यवत्कौषीतकिभिर्वायुलोकानन्तरं वरुणलोकस्य पठ्यमानत्वेन भवदुक्तविशेषस्य तत्रापि शक्यवचनत्वादुक्तहेतोरर्थान्तरसाधकत्या प्रकृतासिद्धिरित्यर्थः । तर्हि वायुलोकगतपुरुषीयं पूर्ववर्तित्वं परामृशतस्तच्छब्दस्य तथात्वमस्त्वित्यत आहुः न चेत्यादि । तथा चाद्ये पक्षे व्याख्येयसूत्रविरोधः, द्वितीये च वरुणसूत्रस्येत्युभयमप्ययुक्तमित्यर्थः । दूषणान्तर- रश्मिः। दानविरोधकृतश्रुतिविरोधरूपा । अब्दादित्ययोरन्तराल । इति नन्वब्दः कोक्त इति चेन्न । छान्दोग्यैकवाक्यतया प्राप्तेः । स्तिमित इति विगमनस्थलरहितोपि । विगमयतीति विगमनस्थलं कुर्वन्त्स्ववयवांस्तान् विगमनस्थलं कारयति वायुः । तच्छब्दस्येति । स वरुणलोकं इत्यत्र स इति तच्छब्दस् । तत्रेति वरुणवाक्ये । तत्रापीति कौषीतकिब्राह्मणेपि । उक्तहेतोरिति अविशेष- विशेषहेतोः । अर्थान्तरम् । 'संवत्सराद् वायुलोकं वायुलोकाद् वरुणलोकं वरुणलोकादादित्यं' इत्यर्थान्तरम् । अर्थः 'अग्निलोकात्संवत्सरं संवत्सराद्वायुलोकं वायुलोकाद्वरुणलोकं वरुणलोकादा- दित्यलोकम् । स आदित्यमागच्छती'त्युक्तहेत्विति । तदन्योर्थ उक्त इत्यर्थान्तरम् । तस्य साधक- तया प्रकृतं यदब्दाद्वायुलोकं वायुलोकादादित्यमिति । यद्वा परमते प्रकृतोग्निलोकात्संवत्सरं इत्यादि- रुक्तोर्थः । तस्यार्थस्यासिद्धिः । अनुमानं तु छान्दोग्ये वायुमन्दात् अविशेषविशेषाभ्याम् । 'अग्नि- लोकमागच्छति स वायुलोकं स वरुणलोक'मिति वाक्यवदिति । एवं दृष्टान्तः । तच्छब्दस्येति स वरुणलोकमिति तच्छब्दस् । तथात्वमिति । पौर्वापर्यवाचकत्वमस्त्विति । न चेत्यादीति । तथेति । स वरुणलोकमागच्छतीति न निवेश्यम् । तदितोधि वरुण इतिसूत्रात् । एवं च तथा १४ ब्र० सू० २० 2223