अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2364, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Unicode Devanagari Markdown:
१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० १ सू० २. तुल्यत्वात् । किञ्च, एवमग्निलोक़ानन्तरं वायुलोक इत्यपि वक्तुं शक्यम्, अतो विद्यु- न्निरपेक्ष्योऽयम् । वाजसनेयिनस्तु, ‘मासेभ्यो देवलोकं देवलोकादादित्य’मिति पठन्ति । तत्राप्यादित्यात् पूर्वो देवलोकात् परो वायुर्ज्ञेयः । एकत्रादित्यात् पूर्वत्वे सिद्धे मार्गैक्यादन्यत्रापि तथात्वस्य न्यायप्राप्तत्वात् । सूत्रकारेण तु छन्दोग- श्रुत्यपेक्षयोक्तम्, वायुमब्दादिति । एवं सति मासेभ्यः परस्तादब्दनिवेशनं कार्यम् । नच ‘वायुमब्दा’दिति सूत्रान्मार्गभेदापत्तिः । देवलोकस्यादित्याधिष्ठेयत्वेनादि- त्यमध्यपातित्वमभिप्रेत्य छन्दोगश्रुतिस्तथोक्तवती । तदनुसारेण व्यासोपि । अतो नानुषपत्तिः