अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2365, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिबृंहितम् । १०७ तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥ 'आदित्याच्चन्द्रमसं चन्द्रमसो विद्युत'मित्यत्र पठितविद्युल्लोकात् परतो वरुणलोको निवेशनीयः। तत्र हेतुः । सम्बन्धात् । तडितोऽप्सम्बन्धित्वाद्- वरुणस्य तत्पतित्वात् तथा ॥ ३ ॥ वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥ स्पष्टमिदम् । अर्चिरादिपाठे विद्युदनन्तरं 'तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयती'ति पठ्यते । तन्तु यस्योपासकस्य वरुणादिलोकगमनापेक्षा नास्ति, तमपे- क्ष्येति ज्ञेयम् । मार्गैक्यनियममभिप्रेत्य सूत्रकारोऽन्योक्तानामन्येषामपि लोकानां तत्रैव निवेशनमाह ॥ ४ ॥ ॥ इति चतुर्थाध्याये तृतीयपादे प्रथममर्चिराद्यधिकरणम् ॥ १ ॥ भाष्यप्रकाशः। तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥ ननु भवतु संवत्सरादुपरि देवलोकादर्वाग्वायु- लोकनिवेशस्तथापि वरुणलोकः क्व निवेशनीयः, न हि तत्र विशेषादिरूपं किमपि नियामक मन्त- राले निवेशने लभ्यते, अतो मार्गभेदपक्ष एव युक्त इत्याशङ्कानिरासायेदमित्याशयेन व्याकुर्वन्ति आदित्यादित्यादि । तडितोऽप्सम्बन्धत्वादिति । 'विशाला हि विद्युतो नृत्यन्ति तीव्रस्त- नितनिर्घोषो जीमूतोदरेषु नृत्यन्ति अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वे'ति ब्राह्मणात् तथा। तथा चाप्सम्बन्धरूपस्य नियामकस्य विद्यमानत्वात् तन्निवेशसिद्धेर्न मार्गैक्यबाध इत्यर्थः॥३॥ वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥ स्पष्टमिति । पाठसामर्थ्यादेव तन्निवेशस्थानं स्पष्टमिति न पूर्ववदाशङ्कावकाश इत्यर्थः । तदिदनन्तरं वरुणादिलोकनिवेशेऽर्चिरादिश्रुति- विरोधमाशङ्क्य परिहरन्ति अर्चिरादीत्यादि । तमपेक्ष्येति पर्यङ्कविद्युदुपासकमपेक्ष्य । मार्गैक्यनियममभिप्रेत्येति । अक्षिपुरुषविद्यापञ्चाग्निविद्ययोरिव पर्यङ्कविद्यायामपि देवयानमार्गस्य प्रत्यभिज्ञानात् तयोरिवात्रापि वैद्युतस्यातिवाहिकस्यावश्यकत्वात् रश्मिः। तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥ तत्रेत्यादि । 'अग्निलोकमागच्छति स वायुलोकं स वरुणलोक'मित्यत्र विशेषः स इति द्वये । आदिना क्रमः सम्बन्धश्च । अन्तराले इन्द्रादित्यलो- कयोरन्तराले । इदमिति । सूत्रम् । १ नृत्यन्तीतीति । नृत्यन्ति इति ह इति छेदः । ह आश्चर्यं । ऋश्येति । ऋश्येवाचरति । नृत्यसूक्ष्मत्वादिन । तेति वर्णागमः । तन्निर्घोषो वा तकारलोपः । तस्याः विद्युतः निर्घोषः आकाशे जीमूतोदरेष्वाकाशे शब्दः । 'आकाशे कः शब्दं करोती'ति प्रश्ने 'आरणे विद्यु'दित्युत्तरात् । जीमूतो मेघः इन्द्रस्यात्ममूर्तिः । अथ तदनन्तरं आपः सेचनकर्म्यः । वि- द्योतते विद्युत् । स्तनयति जीमूतः । वर्षिष्यति वा जीमूतः । तथेति । भाष्यीयतथेत्यस्यानु- वादः । तडितोऽप्सम्बन्धित्वम् । तन्निवेशेति । वरुणलोकनिवेशसिद्धेः ॥ ३ ॥ वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥ पाठे इति । 'स एवं देवयानं पन्थानमापद्याग्निलोक- मागच्छति, स वायुलोकम्, स वरुणलोकम्, स इन्द्रलोकम्, स प्रजापतिलोकम्, स ब्रह्मलोक'मिति कौषीतकिश्रुतिपाठसामर्थ्यात् । पूर्ववदिति । तडित्सूत्रवत् । आशङ्केति । लोकनिवेशशङ्कावकाशः । मार्गैक्यनियममभिप्रेत्येतीति । अर्चिरादिमार्गैक्यनियमम् । तयोरिवात्रामिति । १ नृत्यन्तीति रश्मिपाठः । 2225