अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2366, कुल 2600 में से
संदर्भ में पढ़ें१०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० २ सू० ५. आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ (४-३-२) विद्युदनन्तरं 'तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयती'त्यत्र भवति संशयः । उक्तश्रुतेर्गमयित्रैव ब्रह्मप्राप्तिरिति निश्चीयते । स च विद्युदनन्तरमेव पठ्यते । एवं सति यस्य वरुणादिलोकगमनम्, तस्य वचनाभावेन गमयित्रप्राप्ते- र्ब्रह्मप्राप्तिर्भवति, न वेति । तत्र वाचनिकस्य यावद्वचनत्वात्तदभावेन सा न भवतीति प्राप्त आह आतिवाहिका इति । एतदुक्तं भवति । यस्योपासकस्य यावत्फलभोगानन्तरं ब्रह्मप्राप्तिर्भाविनी, तस्य तावद्भोगानन्तरं ब्रह्मप्राप्तिर्भवति, अत एव कौषीतकिश्रुतौ प्रजापति- लोकानन्तरं ब्रह्मलोकः पठ्यते । अन्यथा कृतसाधनवैयर्थ्यम्, तेषां ब्रह्मप्राप्तिसाधन- त्वबोधकश्रुतिविरोधश्च स्यात् । तथा च यत्रातिवाहिकश्रुतिर्नास्ति, तत्राप्याति- वाहिको भगवदीय एव ब्रह्म प्रापयतीति ज्ञेयम् । वस्तुतस्तु बहव एव तादृशाः भाष्यप्रकाशः । तथाभिप्रेत्य । तथाचैतन्न्यायेन सर्वासु क्रमप्राप्तिबोधिकासु ब्रह्मविद्यासु वैद्युतं पुरुषं विना न ब्रह्मप्राप्तिरिति बोधनार्थं मार्गैक्यनिरूपणमित्यर्थः ॥ ४ ॥ इति प्रथममर्चिराद्यधिकरणम् ॥ १ ॥ आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ एतस्याधिकरणस्याय विषयं संशयं चाहुः विद्यु दित्यादि । सङ्गतिस्त्ववसरः । पूर्वपक्षमाहुः तत्रेत्यादि । सिद्धान्तं व्युत्पादयन्ति एतदि- त्यादि । अन्यथा कृतसाधनवैयर्थ्यमिति । तेनोपासनेन ब्रह्मप्राप्त्यभावे तदर्थं कृतं यदुपासनरूपं साधनं तस्य वैयर्थ्यम् । तेषामिति । उपासनानाम् । आतिवाहिकश्रु- तिरिति । अतिवहनं अतिक्रमयित्वा प्रापणं अतिवाहः । भावे घञ् । तत्सम्बन्धी आति- वाहिकस्तद्बोधिका श्रुतिरातिवाहिकश्रुतिः । ननु यद्येवमातिवाहिकप्राप्त्यर्थमिदं सूत्रं स्यात्, तदैकवचनमेव प्रयुज्येत, श्रुतौ 'अमानवः पुरुष' इत्येकवचनात्, अतो नैवमित्यत आहुः वस्तुत इत्यादि । तथा च यत्रातिवाहिको न पठितः, तस्यामपि विद्यायां ब्रह्मप्राप्तेरुक्त- रश्मिः । अक्षिपुरुषविद्यापञ्चाग्निविद्ययोरित्यासां पर्यङ्कविद्यायाम् । तथाभिप्रेत्येति । मार्गैक्यनियममभिप्रेत्य । एतदिति । समीपतरवर्तिसूत्रेण ॥ ४ ॥ इति प्रथममर्चिराद्यधिकरणम् ॥ १ ॥ आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ विद्युदित्यादीति । उक्तेति । अव्यवहितपूर्वमुक्त- श्रुतेः । गमयित्रप्राप्तेरिति । भोगभूमिषु भोगानन्तरं अन्यस्य कर्मदिर्गमयितुरभावादपेक्षितगमयित्र- प्राप्तेरित्यर्थः । अवसर इति । क्रममुक्तौ ज्ञानिसम्बन्धिन्यां ब्रह्मप्राप्तौ प्रतिबन्धकीभूता मार्गनिवेशन- जिज्ञासा तस्या निवृत्तौ सत्यां अवश्यवक्तव्यत्वं सर्वत्र ब्रह्मपुरुषस्य अमानवस्य निवेशे इत्यवसरसङ्गति- लक्षणसमन्वयः । प्रतिबन्धकीभूतजिज्ञासानिवृत्ताववश्यवक्तव्यत्वमवसर इति लक्षणात् । तत्रेत्यादीति । वाचनिकस्य तत्पुरुषस्य अमानवस्य । यावद्वचनं वचनमनतिक्रम्येति यावद्वचनम् । अव्ययी- भावः । अन्यत्र वचनाभावेन । सेति ब्रह्मप्राप्तिः । तदर्थं ब्रह्मप्राप्त्यर्थम् । भास्कराभाष्ये तु भवार्थे ठगुक्तः तत्र भव इति सूत्रात् । तथा चातिवाहे भव आतिवाहिकः । आतिवाहिक इति । औणादिकष्ठक् । भाष्ये । तथा चेत्यादि । विद्यासामर्थ्याद्गमयित्रभावेपि ब्रह्मप्राप्तौ सत्याम् । भगवदीय एवेति । 2226