अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2369, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १११ ननु 'तेषामिह न पुनरावृत्तिरस्ती'त्यादिश्रुतिभ्यो देवयानं पन्थानं प्राप्तानां पुंसां ब्रह्मवित्त्वमवश्यं वाच्यम्। तेन सद्योमुक्तौ सम्भवत्यां सत्यां क्षयिष्णुत्वेन क्षुद्रानन्दत्वेन च हेयानां परमफलप्राप्तिविलम्बहेतूनामर्चिरादिलोकानां कामना कुतः यतस्तद्धेतुभूतोपासनाः सम्भवन्ति। किञ्च। 'अर्चिरादिना तत्प्रथिते'रित्यत्र यदुक्तं ज्ञानमार्गीयस्यैवार्चिरादिप्राप्तिः, न भक्तिमार्गीयस्येति, तदप्यनुपपन्नम्। 'यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च य'दित्युपक्रम्य, 'सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा, स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छती'ति भगवद्वाक्याद्भक्तस्या- प्येतद्वाञ्छाफले सम्भवतः। अन्यथा प्रभुनं वदेत्। एवं सति भक्तिसुखं हित्वा- न्यत्र कामनायां हेतुर्वाच्य इत्याकाङ्क्षायां तमाह। उभयव्यामोहात् तत्सिद्धेः ॥ ६॥ अत्रेदं ज्ञेयम्। देवयानः पन्था अपि भगवतैव सृष्टोऽस्ति। तथाचोक्तहेतु- भिस्तत्र कस्यापि कामाभावे तत्सृष्टिर्व्यर्था स्यात्, अतो भगवान्नेव कांश्च व्यामो- हयति ज्ञानिनो मर्यादामार्गीयभक्तांश्च, अतस्तत्कामनासिद्धेस्तत्फलभोग इति। यस्त्वर्चिरादिमार्गगन्तॄणां देहवियोगेन सम्पिण्डितकरणग्रामत्वेनास्वातंत्र्यं व्यामोहः। अर्चिरादीनां चाचेतनत्वेनास्वातंत्र्यं व्यामोहः। कार्यकरणासामर्थ्य- मिति यावत्। तेनार्चिराद्यधिष्ठातृदेवैरतिवाह्यन्त इति सिद्धमिति व्याख्यानम्। भाष्यप्रकाशः। अतो यथैकदेशीयानेकग्रामवासिनामेकस्मिन् देशे गन्तव्ये तन्मार्गेणैकेन तं प्रति गच्छतां मध्ये- मार्गमनेकनगरग्रामादिसद्भावेपि यस्य यत्र किञ्चित्कार्यम्, स एव तत्र विरम्यग्रे गच्छति, अन्य- स्त्वन्यत्र, न तु सर्वः सर्वत्र तथेत्यर्थः ॥ ५॥ उभयव्यामोहात्तत्सिद्धेः ॥ ६॥ सूत्रमवतारयन्ति ननु तेषामित्यादि। अर्थस्त्वव- तारणस्य सूत्रव्याख्यानस्य च स्फुटः। तथाच, 'स वै नैव रेमे' इत्यादिश्रुतेः 'कृतप्रयत्नापेक्ष' इति न्यायाच्च कांश्चन व्यामोहयन् लीलां करोतीति तदर्थं तथेत्यर्थः। पूर्वसूत्रोक्तं हेतुमर्चिरादिदेवानामातिवाहिकत्वसिद्धावपर्याप्तं मन्वानैस्तदर्थं यद्रत्नात्रेय्या- रश्मिः। गन्तव्य इति। देशस्यास्त्युक्त एको देशः गन्तुमर्हस्तस्मिन्। तन्मार्गेणेति गन्त- व्यदेशमार्गेण। तमिति। गन्तव्यदेशं प्रति। अग्रेपि गच्छतीति। सुहृद्भिः सह गच्छतीति बोध्यम्। दार्ष्टान्तिकानुरोधात् ॥ ५॥ उभयव्यामोहात्तत्सिद्धेः ॥ ६॥ स्फुट इति। तमाहेत्यस्य हेतुमाहेत्यर्थः। एवमव- तारणस्यार्थः स्फुटः। सूत्रव्याख्यानस्यार्थस्तु ज्ञानिन इत्यारभ्य सूत्रार्थः। उभयेषां ज्ञानिमर्यादामार्गीय- भक्तानां व्यामोहात् कामनासिद्धेस्तत्तल्लोकफलभोग इत्येवं स्फुटः। कृतप्रयत्नेति। 'कृतप्रयत्ना- पेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य' इति सूत्रात् द्वितीयाध्यायतृतीयपादस्थात्। तथेत्यर्थ इति। उभयव्यामोहात् तत्सिद्धेरित्यर्थः। अपर्याप्तमिति। अग्रिवायुरवरुणाद्युत्तरं लोकसम्बन्धान्निजरेष्वस्वरूप- श्रुतिः भोगायतनत्वहेतुभूता पूर्वसूत्रोक्तलिङ्गादिति हेतोर्बलीयसी आतिवाहिकत्वहेतुभूतात्। अतो- ऽपर्याप्तम्। अपरिपूर्णम्। तदर्थमिति। आतिवाहिकत्वसिद्ध्यर्थम्। ननूक्तमर्चिराद्यधिष्ठातृदेवैरति- 2229