सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2370, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2370

Here is the line-by-line transcription of the text into Devanagari Markdown format:

११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० २ सू० ६. तन्न साधीयः । व्यामोहशब्दस्यान्यथाज्ञानवाचकत्वेन असामर्थ्यवाचकत्वात् । तथा सत्यर्षिलोकंमपि न प्राप्नुयात् । प्रापकाभावादित्युक्तम् ॥ ६ ॥ भाष्यप्रकाशः । ख्यातं तद्दूषणायोपक्षिपन्ति दूषयन्ति च यस्वित्यादि । तन्नेत्यादि च । तथा सतीति । गन्तॄणां पिण्डितकरणग्रामत्वेनास्वातन्ये सति । तथा चानया रीत्या व्यामोहे- नार्चिरादीनामातिवाहिकत्वसाधनमसङ्गतमेवेत्यर्थः । किञ्च । यदनवस्थितत्वादर्चिरादीनां न मार्ग- लक्षणत्वमिति । तदपि तथा । तेषां लोकत्वस्य स्वयमप्यङ्गीकृतत्वेनाप्रलयं तत्स्थितेस्तदभावात् । नापि रात्रौ प्रेतस्याहःसम्बन्धानुपपत्तिः । तेषां लोकतया स्थिरत्वेन विद्ययैव तत्राप्त्युपपत्तेः । 'अहोरात्रेषु ते लोकेषु सज्जन्त' इति ब्राह्मणस्य स्वयमेव पूर्वं लिखनात् । तेनाहोरात्रन्यायात् समा- नप्रकरणे लोकपदोपबन्धाच्च गन्तृविशेषभोगभूमित्वमेव युक्तम् । अतः पूर्वसूत्रव्याख्याने श्रौता- नामर्चिरादिपदानां स्वार्थत्यागः । अन्यगतलिङ्गेनान्येषामानिवाहिकत्वसाधनम् । लोकपदोपबन्ध- वैयर्थ्यम् । अत्र सौत्रपदस्य स्वार्थत्याग इति तदुभयव्याख्यानमप्यसङ्गतमित्यर्थः ॥ ६ ॥ रश्मिः । वाद्यन्त इति चेत्, तत्राहुः प्रापकाभावादिति । अर्चिषः प्राप्तावातिवाहिकाभावादन्यत्रापि तथा- त्वादित्यर्थः । अर्चिषः प्राप्तौ कल्प्यत आतिवाहिक इति चेत्, तत्राहुः इत्युक्तमिति । लोकाधिष्ठाने- त्यादिभाष्येण पूर्वसूत्र उक्तम् । तथा च त्रिवृत्करणे पञ्चीकरणाप्राप्तौ तदर्चिष्यातिवाहिकाप्राप्तिरिति भावः । असङ्गतमिति । निरपेक्षस्वरूपामिलोकादिश्रुत्यपेक्षयातिवाहिकलिङ्गस्य दुर्बलत्वादिति पूर्वसूत्र उक्तत्वादेवकारः । शाङ्करभाष्यीयमन्यदपि दूषयन्ति स्म किञ्चेति । न मार्गेति । न मार्गचिह्नत्वं संशयप्रथमकोटोक्तम् । तथेति । असङ्गतम् । आप्रलयमिति । प्रलयं मर्यादांकृत्येल्यर्थः । तदभावा- दिति । अनवस्थितत्वाभावात् । प्रलयात् पूर्वमेकदेशविकृतावप्येकदेशविकृतमनन्यवदितिन्यायस्य 'अन्ये तु' इत्येवं शाङ्करादिमतोपन्यासेन सूचनात् । अहः सम्बन्धेति । लोकदेवता विना । अहः- सम्बन्धावश्यकत्वं 'निशि ने'ति सूत्र उक्तम् । तेषामिति । आतिवाहिकानाम् । विद्ययैवेति । विद्ययापि । अपिना तात्पर्यविषया लोकदेवताविशेषाः । पूर्वमिति । आतिवाहिकसूत्रे । सिद्धमाहुः तेनेति । अहोरात्रन्यायो गन्तॄणां विशेषत्वे हेतुः । विशेषो विद्वत्त्वम् । रात्रौ मृतस्य विदुषोऽहः- सम्बन्धावश्यकत्वात् । समानेति तेषां भोगभूमित्वे हेतुः । समानप्रकरणं तु कौषीतकिनां समान- प्रकरणीयत्वकथनात् । एवेति । न तु देवताविशेषत्वम् । इदमातिवाहिकाधिकरणं परेषां मतेपि त्रिसूत्रम् । तत्र प्रथमसूत्रे किञ्चिदाहुः अतः पूर्वेति । व्याख्यानं तु तल्लिङ्गादातिवाहिकाः लोकदेवताविशेषाः । द्वितीयार्थस्तु उभयव्यपदेशात् आतिवाहिकत्वसिद्धेरिति । तृतीयसूत्रार्थस्तु अमानवो विद्युल्लोकमागतो वैद्युतः । तेनैव ततो विद्युल्लोके प्राप्तेरूर्ध्वं नीयमाना विद्वांसः कार्यं ब्रह्म प्राप्नुवन्ति । तच्छ्रुतेः विद्युल्लोक- स्थनित्यमानवस्यैव गमयितृत्वश्रवणादिति । तस्मिन् । स्वार्थेति । लोकरूपस्वार्थस्तस्य त्यागः । अन्यगतेति । संपिण्डितकरणग्रामजीवगतत्वेन अर्चिरादिमार्गगतत्वेन च लिङ्गेन उभयव्यामोहेन च । अन्येषामिति । लोकदेवानाम् । लोकपदेति । अग्निलोकवायुलोक्येत्यादिषु लोकपदेत्यादिः । अग्न्यादिपदैरेव देवताविशेषोपस्थितेः 'अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशा'दिति न्यायात् । अत्रेति उभयव्यामोहसूत्रे । सौत्रपदस्य व्यामोहपदस्य । स्वार्थोऽन्यथाज्ञानम् । तस्य त्यागः । तदुभ- येति । सूत्रयोरुभयोर्व्याख्यानम् । तृतीयं त्वागन्तुकमित्युपेक्षितम् ॥ ६ ॥ 2230