अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2371, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३ ननु विद्युतो वरुणादिलोकप्राप्त्यनन्तरं यस्य ब्रह्मप्राप्तिः, तस्य तल्लोकसम्बन्धी ब्रह्मप्रापकः पुरुषोस्ति, उत स स्वत एव तत्प्राप्नोतीति संशय उत्तरं पठति । वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ न हि ब्रह्मप्राप्तिर्विद्युल्लोकसम्बन्धिपुरुषसामर्थ्येनोच्यते, किन्तु ब्रह्मसम्बन्धि- तत्सामर्थ्येन । तथा च यत एव लोकात् तत्प्राप्तिः, ततो ब्रह्मसम्बन्धिपुरुषा- देव । एवं सति विद्युल्लोकात्तत्प्राप्तौ यो ब्रह्मसम्बन्धी पुरुषः प्रापक उक्तः, तेनैव ततो वरुणादिलोकेभ्योपि ब्रह्मप्राप्तिः । तत्र हेतुमाह तच्छ्रुतेः । 'तान् वैद्युतात् पुरुषो मानस एत्य ब्रह्मलोकान्गमयती'ति श्रुतेः । अत्र 'एत्ये'ति वचनाद्यत एव लोकाद् ब्रह्मप्राप्तिर्भविष्यी, तत्रैवागत्य ब्रह्म प्रापयतीति गम्यते । श्रुतौ 'वैद्युतं लोकमागत्य तस्माद् ब्रह्मलोकान्गमयती'त्युक्तमिति स पुरुषो वैद्युत इत्युच्यते, न तु तल्लोकवासित्वेन । तथा सति 'एत्ये'ति न वदेत् तत एव ब्रह्मप्रापणे । अत एव 'मानस' इत्युक्तः । यदैव भगवन्मनसि भवति 'अथैनं मां प्राप- यत्वि'ति, तदैव प्रापयतीति तथा । छान्दोग्ये तु 'अमानव' इति पठ्यते । तच्चालौकिकत्वम्, तदप्युक्तरूप- मेवेति न कश्चिद्विशेषः । वाजसनेयके 'ब्रह्मलोकान्गमयती'ति पठ्यते । छान्दोग्ये तु 'ब्रह्मे'ति । तत्रायं भावः । भक्तं तु वैकुण्ठलोकं नयति, ते बहुविधा इति भाष्यप्रकाशः। वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ सूत्रमवतारयन्ति ननु विद्युत् इत्यादि । तल्लोक- सम्बन्धीति । विद्युल्लोकसम्बन्धी । तत्प्राप्नोतीति । ब्रह्म प्राप्नोति । सूत्रं व्याकुर्वन्ति न हीत्यादि । इति श्रुतेरिति । पञ्चाग्निविद्यास्थवाजसनेयिश्रुतेः । श्रुतौ 'वैद्युता'दित्यस्य 'गमयती'त्यनेन सम्बन्धाद्योऽर्थः सिध्यति, तमाहुः अत्रेत्यादि । तथा सत्येत्येति न वदेदिति । तस्य विद्युल्लोक- रश्मिः। वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ न हीत्यादीति । ब्रह्मसम्बन्धीति । ब्रह्मसम्बन्धः स्वस्वामिभावलक्षणस्तद्वान् ब्रह्मसम्बन्धी । ब्रह्मसम्बन्धी चासौ सः ब्रह्मसम्बन्धिसः तस्य सामर्थ्येन । तत्प्राप्तिरिति ब्रह्मप्राप्तिः । तत इति लोकाद् अवधिभूतात् । ब्रह्मसम्बन्धिपुरुषाद्धेतुतादेव । उक्त इति । वक्ष्यमाणश्रुतावुक्तः । तत इति । सौत्रं पदं व्याख्येयम् । गमयतीत्यनेनेति । न त्वेत्येत्यनेनेति भावः । भाष्ये । तत इति विद्युल्लोकवासिन एव ब्रह्मप्रापणे सति । प्रकृते । न वदेदिति । विद्युल्लोक आगमनपूर्वकाले ब्रह्मलोकवासित्वादेव । स्फुटमिति । तथेति मानसः । बहु- विधा इति । चत्वारः पञ्च वा । व्यापिवैकुण्ठः रमावैकुण्ठः श्वेतद्वीपः अन्वभू । आत्मपरोपोक्षच्छिद्रौ १५ ब्र० सू० २* २२३१