सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2372, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2372

३१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० ३ सू० ८. 'ब्रह्मलोका'नित्युक्तम् । ज्ञानमार्गीयं त्वक्षरं ब्रह्म प्रापयतीति 'ब्रह्मे'त्युक्तम् । अत एवोभयव्यामोह उक्त आचार्येण ॥ ७ ॥ इति चतुर्थाध्याये तृतीयपादे द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥ अत्र सिद्धान्तदार्ढ्यार्थमुक्तमर्थं हस्तपिहितमिव कृत्वा बादरिमतं पूर्व- पक्षत्वेनाह । कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ ( ४-३-३ ) 'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेनाविकृतं परमेव ब्रह्मोच्यते, उत कार्यरूपो ब्रह्मलोक इति भवति संशयः । परस्य व्यापकत्वेन देशविशेषगम- यित्रोरनपेक्षितयोरुक्तेः कार्यरूप एव स ब्रह्मपदेनोच्यत इति बादरिराचार्यो मन्यते । कुतः । अस्य गत्युपपत्तेः । तस्य परिच्छिन्नत्वेन तत्स्थितिदेशं प्रत्यस्य गन्तुर्गतेरुपपत्तेरित्यर्थः ॥ ८ ॥ भाष्यप्रकाशः । वासित्वे सति विद्युताद् ब्रह्मलोकान् गमयतीत्येतावत्तैव विवक्षितार्थसिद्धेरेत्येति न वदेदित्यर्थः । अत एवेति । तदवासित्वादेव । शेषं स्फुटम् ॥ ७ ॥ इति द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ क्रममुक्तौ मार्गे विचार्य तत्फलं विचारयती- त्याशयेन सूत्रमवतारयन्ति अत्र सिद्धान्तेत्यादि । क्रममुक्तौ परब्रह्मैव प्राप्यमिति सिद्धान्तस्य दार्ढ्यार्थमुक्तमर्थमर्चिरादिमार्गो जघन्याधिकारिणां परप्राप्तिसाधनमित्येतमर्थं हस्तपिहितमिव कृत्वा अग्रे स्थापनीयत्वादिदानीमनुक्त्वा तथेत्यर्थः । सूत्रं व्याख्यातुमधिकरणत्वाय विषयसंशया- वाहुः स एतानित्यादि । तथा च ब्रह्मपदश्रुतेर्गतश्रुतेश्च संशय इत्यर्थः । पूर्वपक्षमाहुः परस्ये- त्यादि । स इति । ब्रह्मलोकः । तस्येति । कार्यस्य ब्रह्मलोकस्य ॥ ८ ॥ रश्मिः । वाराहपुराणीयचातुर्मास्यमाहात्म्ये श्रीभूः । अत एवेति । फलाभोगादेव । क्रममुक्तौ ज्ञानिनोपि फलभोगः । उभयेषां ज्ञानिनां मर्यादाभक्तानां व्यामोहोऽन्यथाज्ञानम् । परप्राप्तिलाभाववति ज्ञानि- मर्यादामुक्तमोक्षे परप्राप्तिप्रकारकज्ञानत्वात् लक्षणसमन्वयः । तदभाववति तत्प्रकारकं ज्ञान- मन्यथाज्ञानमिति लक्षणम् । पुष्टिमार्गीयपरप्राप्तिव्यतिरिक्ते फले व्यामोह इत्युक्तम् । तदुक्तं तृतीय- सुबोधिन्यां 'भक्तिमार्ग एव मार्ग' इति । मुख्ये पुष्टिमार्गे कार्यसम्पत्त्यो बोध्यः । एवं स्फुटम् । अत्र वृत्तौ ब्रह्मप्राप्तेः प्रापकपुरुषाधीनत्वाद् विद्युल्लोकस्य चातिक्रान्तत्वाद् वरुणादिलोकस्यैव ग्राह्यत्वाद् अस्तीति पूर्वपक्षं निक्षिप्याधिकरणान्तरत्वं सूचितम् । संशय आभास उक्तः । विषयसिद्धान्तौ व्याख्यान एव स्फुटाविति ॥ ७ ॥ इति द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ तत्फलमिति । उभयव्यामोहोऽनुसन्धेयः । परब्रह्मैवेति । ज्ञानभक्तौ विशेषतश्चेदनुगृह्णाति तदा पुष्टिभक्तिं प्राप्नुत आदाविति सिद्धान्तमुक्ता- वलीटिप्पणे श्रीगोस्वामिनः । तेन परब्रह्मापीत्यर्थः । एवकारोऽप्यर्थे । तथेति । बादरिमतं पूर्वपक्षत्वे- नाहेत्यर्थः । गतिश्रुतेरिति । 'गमयती'ति गतिश्रुतेः । ब्रह्मणः सायुज्यात्तत्र गमनाभावाद्ब्रह्मलोको ब्रह्मपदवाच्य इति ॥ ८ ॥ 2232