सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2373, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2373

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११९ विशेषितत्वाच्च ॥ ९ ॥ 'ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ती'ति श्रुतौ बहुत्वेन वासाधिकरणत्वेन च विशेषिता लोकाः । गन्तारश्च दूरदेशगत्या विशे- षिता इति न परं ब्रह्म तत्, किन्तु कार्यमेवेत्यर्थः । लोकपदं तज्जन्यभोगपरम् । तेन तस्यैकत्वेपि विविधभोगज्ञापनाय बहुवचनं घटते ॥ ९ ॥ तत्र ब्रह्मशब्दप्रयोगहेतुमाह । सामीप्यात्तु तद्व्यपदेशः ॥ १० ॥ तल्लोकस्थितानां नान्यलोकव्यवधानं परप्राप्तौ, किन्तु तत एवेति परब्रह्म- सामीप्याद् ब्रह्मत्वेन व्यपदेशः कृतः । तुशब्दस्तु वस्तुतो ब्रह्मत्वं व्यव- च्छिनत्ति ॥ १० ॥ भाष्यप्रकाशः। विशेषितत्वाच्च ॥ ९ ॥ तस्य कार्यत्वाय हेत्वन्तरं दर्शयतीत्याशयेन सूत्रं व्याकुर्वन्ति ब्रह्मलोकानित्यादि । विशेषिता इति । अत्र श्रुतौ पूर्वं तानिति गन्तृविशेषणे दूरदेशगन्तारः परामृश्यन्ते, बहुत्वं चोच्यत इति गन्तारस्तथा विशेषिताः । 'पराः परावतो वसन्ती'ति प्रकृष्टा गन्तारः प्रकृष्टान् ब्राह्ममानमितान् संवत्सरान् वसन्तीति श्रावणाच्च ब्रह्मलोका विशेषिताः । तदिति 'ब्रह्म गमयती'त्यत्र प्राप्यत्वेनोक्तम् । ननु ब्रह्मपदस्य कार्यब्रह्मपरत्वे श्रुत्यन्तरोक्तलोकपदविरोध इत्यत आह लोकपदमित्यादि ॥ ९ ॥ सामीप्यात्तु तद्व्यपदेशः ॥ १० ॥ भाष्यमत्रातिरोहितार्थम् ॥ १० ॥ रश्मिः। विशेषितत्वाच्च ॥ ९ ॥ तस्येति । स एतान्ब्रह्म गमयतीत्यत्र ब्रह्मणः । दूरदेशेति । लोकाल्लोकान्तरगमनेऽवधिभूतदेशस्थास्तानिति तच्छब्दार्थः दूरदेशगन्तारः तानिति । बहुत्वं च । तथा विशेषिताः बहुत्वेन साधिकरणत्वेन च विशेषिताः । परपदार्थमाहुः । प्रकृष्टाः । 'परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यत' इत्यत्र । परावत इत्यस्यार्थमाहुः ब्राह्ममानेति । ब्राह्ममानेन मितानपरिमितान् । परा विध्यन्तेऽनेति परावान् तान् परावतः । पराशब्दोत्र घर्षणे । 'परादि मोक्षप्राधान्यप्रातिलोम्येषु घर्षणे' इति विश्वात् तद्वतः संवत्सरान् कालो घर्षयतीति तथा । ब्रह्मलोका इति । तेन ब्रह्मलोकान् गमयति ते तेषु कार्यरूपेषु ब्रह्मलोकेषु पराः परावतः वसन्तीति पदच्छेदः । पराः परावतो ब्रह्मलोकान् वसन्तीत्यन्वयः । केष्वित्याकाङ्क्षायामाह । तेषु ब्रह्मलोकेषु ये ब्रह्मलोकास्तान् । श्रुत्यन्तरेति । 'अग्निलोकमागच्छति स वायुलोक'मित्यादिश्रुत्यन्तरेत्यर्थः । लोकः कार्यमिति । स