अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2374, कुल 2600 में से
संदर्भ में पढ़ें२१६ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० ११. ननु 'आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति वाक्यात्ततः पुनरावर्तते । अत्र तेषामिह न पुनरावृत्तिरस्तीति पश्यत इति परमेवात्र ब्रह्मशब्देनोच्यत इति प्राप्ते, उत्तरं पठति । कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥ कल्पसमाप्तौ कार्यस्य ब्रह्मलोकस्य नाशे सति तदध्यक्षेण चतुर्मुखेन ब्रह्मणा सह अतो ब्रह्मणः सकाशात् परमीश्वरं प्राप्नोत्यतोऽपुनरावृत्तिश्रुतिर्न विरुध्यते । अत्र प्रमाणमाह अभिधानादिति । श्रुतौ तथाभिधानादित्यर्थः । सा तु 'वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः ते ब्रह्मलोके- षु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे' इति । 'परान्तकाल' इत्यत्र पर- शब्देन ब्रह्मणः पूर्णमायुरुच्यते ॥ ११ ॥ उक्तेऽर्थे श्रुतिं प्रमाणत्वेनोक्त्वा स्मृतिमप्याह । स्मृतेश्च ॥ १२ ॥ 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मिति स्मृत्यापि स एवार्थः प्रतिपाद्यते ॥ १२ ॥ भाष्यप्रकाशः। कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥ प्राप्यस्य ब्रह्मसामी- प्याद् ब्रह्मत्यवाद इत्यङ्गीकारे विषयश्रुतिविरोधमाशङ्क्य समाधत्त इत्याशयेन सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति कल्पेत्यादि । ब्रह्मण इति । चतुर्मुखात् ॥ ११ ॥ स्मृतेश्च ॥ १२ ॥ उत्तानार्थम् ॥ १२ ॥ रश्मिः। कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥ प्राप्यस्येति । ब्रह्मलोकस्य न तु ब्रह्मणः, तस्य नित्यप्राप्तत्वात् । समाधत्त इति पूर्वपक्ष्येव । नन्वित्यादीति । अत्रेति । प्रकृतविषये । पञ्चाग्निविद्यायां श्वेतकेतुब्राह्मणे 'तेषामिह न पुनरावृत्तिरस्ती'ति श्रुतिः । अत्रेति 'स एतान्ब्रह्म गमयती'त्यत्र । कल्पेत्यादीति । परशब्देनेति । तया च ब्रह्मणश्चतुर्मुखस्य पूर्णायुषोऽन्तकाले आयुषश्चरमावयवे इति परान्तकाल इत्यस्यार्थः ॥ ११ ॥ स्मृतेश्च ॥ १२ ॥ उत्तानेति सम्प्राप्ते प्रतिसञ्चरे कल्पसमाप्तौ कार्यस्य ब्रह्मलोकस्य नाशे सति नाशः सृष्टेः प्रतिकूलसञ्चरः तद्रूपे ब्रह्मणा चतुर्मुखेन सह ते सर्वे कृतात्मानः प्राप्तज्ञानाः । परस्यान्ते परान्तकाले । परं पदं पदनीयं ब्रह्म । एवमुत्तानार्थम् । वृत्तौ त्वत्राधिकरणसमाप्तिः सूचिता, वक्ष्यमाणसूत्रे अत्रापि 'स एतान्ब्रह्म गमयती'त्येव विषय- वाक्यम् । पूर्ववदेव संशयः, तद्बीजं च पूर्वपक्षस्तु बादरिमेतेनेति पुनरुक्तेः । तन्न, भाष्यविरुद्धत्वात् । अत एव अग्रे सूत्रमवतारयन्तीत्युक्तम्, न त्वधिकरणमवतारयन्तीत्युक्तम् ॥ १२ ॥ 2234