अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2375, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ अत्र सिद्धान्तमाह । परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥ 'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेन परमेव ब्रह्मोच्यत इति जैमिनि- राचार्यो मनुते । कुतः । मुख्यत्वात् । बृहत्त्वादिधर्मविशिष्टं हि ब्रह्मपदेनोच्यते । तादृक् परमेव ब्रह्म भवतीति मुख्या वृत्तिर्ब्रह्मपदस्य परस्मिन्नेव, अन्यत्र गौणी । तथा च मुख्यगौणयोर्मध्ये मुख्यस्यैव बलिष्ठत्वात् तथा ॥ १३ ॥ दर्शनाच्च ॥ १४ ॥ 'स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोक'मिति कौषीतकिश्रुतिरग्न्यादिलोक- प्राप्तिवदविशेषेणैव प्रजापतिलोकप्राप्त्यनन्तरं ब्रह्मलोकप्राप्तिं दर्शयति । न हि तत्र ब्रह्मलोकशब्देन कार्यः स उच्यत इति वक्तुं शक्यम् । पार्थक्येन प्रजापति- लोकस्योक्तत्वात् । भाष्यप्रकाशः। परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥ सूत्रमवतारयन्ति अत्रेत्यादि । पञ्चभिः सूत्रैर्बादरि- मतोपक्षेपमुखेन पूर्वपक्षमुक्त्वा, अस्मिन् सूत्रे जैमिनिमतोपन्यासमुखेन स्वसिद्धान्तमाहेत्यर्थः । सूत्रव्याख्यानं तूत्तानार्थम् ॥ १३ ॥ दर्शनाच्च ॥ १४ ॥ अविद्यादिदोषाणामभावेपि कामनायाः सत्त्वान्मत्रेणाधिकार- जाघन्याद् गत्युपपत्तौ लोकाङ्गीकारेण विशेषितत्वस्य चोपपत्तौ सामीप्यनिबन्धनाया गौण्या अप्र- योजकत्वान्निश्चिरिति पूर्वसूत्रे मुख्यत्वेन हेतुनैव सिद्धमिति कार्यात्ययादिसूत्रद्वयोत्तरमव- शिष्यते । तदनेन वदतीत्याशयेन सूत्रं व्याकुर्वन्ति स एतं देवयानमित्यादि । रश्मिः । परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥ बादरीति । मुख्यमुपायः । उत्तानेति । अत्रेति । पूर्वपक्षे । बृहत्त्वादीति । आदिना बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मेत्यत्रोक्तं बृंहणत्वम् । अन्यत्रेति ब्रह्म- लोके । गौणमुख्यन्यायमाहुः तथा चेति । तथेति । ब्रह्मपदेन परमेव ब्रह्मोच्यत इत्यर्थः ॥ १३ ॥ दर्शनाच्च ॥ १४ ॥ सूत्रावतरणाय पञ्चभिः सूत्रैर्बादरिमतोपक्षेपः कृतः तस्य परिहारे विवेचयन्ति स्म अविद्यादीति । कामनाया इति । द्वितीयस्कन्धोक्तलोकदिदृक्षायाः । गतीति- कार्ये ब्रह्मणि गत्युपपत्तौ । द्वितीयसूत्रे अक्षरलोकपरब्रह्माङ्गीकारेण परावद्विशेषणस्य चोपपत्तेः । परावत इत्यस्य मोक्षवतो ब्रह्मलोकान् । प्राधान्यवतो वा । उक्तविश्वासात् । तृतीयसूत्रे सामीप्येत्यादिः । मुख्यत्वेनेति । कार्यं ब्रह्म न मुख्यम्, परावत इत्यस्य धर्षणवत इत्यर्थो न मुख्यः प्रथमत्यागे मानाभावात् । गौणी न मुख्येति प्रसिद्धमिति पूर्वोक्तं मुख्यत्वेन हेतुनोत्तरं सिद्धमित्यर्थः । अनेनेति । दर्शनाच्चेति सूत्रेण । जैमिनिमतेन समाधाने धर्मोपस्थित्या तत्प्रतिपादकपूर्वकाण्डे प्रजापतिलोकोपरि ब्रह्मलोकस्य असम्भवदुक्तिकत्वात् तृतीयाष्टके 'प्रजापतिकामयत प्रजाः सृजेये'तीक्षाश्रावणात् । 2235