अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2377, कुल 2600 में से
संदर्भ में पढ़ेंअपरं च, 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती'ति छान्दोग्यश्रुतिं विषयीकृत्य, 'अर्चिरादिना तत्प्रथिते'रित्युपक्रम आचार्येण कृतः, अन्यत्रार्चिःशब्दस्याभावात्, तत्र चान्ते 'ब्रह्म गमयती'त्युच्यते । तथा च छान्दो- ग्येऽनुक्तानामन्यत्रोक्तानां लोकानां मार्गैक्यसिद्ध्यर्थं तत्रैव सन्निवेशो, 'वायु- मब्दात्', 'तडितोऽधिवरुणः,' 'वरुणादधीन्द्रप्रजापती' इत्यनेनोक्तः । एवं सत्यादावर्चिषम्, ततोऽहः, ततः सितपक्षम्, तत उदगयनम्, ततः संवत्सरम्, ततो वायुम्, ततो देवलोकम्, तत आदित्यम्, ततश्चन्द्रमसम्, ततो विद्युतम्, ततो वरुणम्, तत इन्द्रम्, ततः प्रजापतिम्, ततश्चामानवेन पुरुषेण ब्रह्मप्राप्ति- रिति निर्णयः सम्पद्यते। एवं सति प्रजापतिलोकादन्य