अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2378, कुल 2600 में से
संदर्भ में पढ़ें१२९ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १४. त्वाच्च तदुक्त एव शास्त्रार्थ इति मन्तव्यम् । किञ्च । 'स प्रजापतिलोकं स ब्रह्मलोक'मित्यत्र ब्रह्मपदस्य परवाचकत्वं तेनापि वाच्यं चेत्, तद्दृष्टान्तेनान्यत्रापि तथैव वाच्यं बाधकाभावात् । भाष्यप्रकाशः। बीजमित्यत आहुः किञ्चेत्यादि । तेनेति । बादरिणा । अन्यत्रेति । अक्षिपुरुषविद्यायां पञ्चा- ग्निविद्यायां च । बाधकाभावादिति । गत्युपपत्त्यादिदूषणानां परिहृतत्वेनान्येषां चाभावेन तथात्वात् । तथा च श्रुतिसामञ्जस्यमेव बीजमित्यर्थः । अत्र बादरिमतमुपपन्नं मन्वानाः शङ्कराचार्या एवमाहुः । 'आकाशवत् सर्वगतश्च नित्य' इति श्रुतेः परस्य ब्रह्मणो व्यापकत्वम्, 'य आत्मा सर्वान्तर' इति श्रुतेः सर्वान्तरत्वम्, 'आत्मैवेदं सर्वम्,' 'ब्रह्मैवेदं विश्वमिदं वरिष्ठ'मिति श्रुतेः सर्वात्मकत्वं च निर्धारितम् । तत्र व्यापकस्य ब्रह्मणो गन्तव्यदेशे विद्यमानत्वेन गन्तृतैवेति तस्य गन्तव्यता नोपपद्यते । न च भूमिष्ठं प्रति गताया एव पृथिव्या देशान्तरद्वारेण गन्तव्यतावदत्राप्युपपद्यत इति वाच्यम् । सर्वात्म- कत्वस्यापि गन्तव्यताबाधकत्वात् । अन्य एव अन्यद् गच्छतीति लोके दर्शनात् । न च बालस्य वार्धक्यवदनन्यत्वेपि गन्तव्यतोपपद्यत इति वाच्यम् । 'निष्कलं निष्क्रियं शान्तं निरवद्यं निर- ञ्जनम्', 'अस्थूलमनणु', 'स एष नेति नेत्यात्मे'त्यादिश्रुतिस्मृतिन्यायेभ्यो ब्रह्मणः सर्वविशेष- शून्यतया सिद्धत्वेन तत्र देशकालविशेषयोगस्याशक्यवचनतया दृष्टान्तविरोधेन तस्यान्यस्य रश्मिः। बादरिणेति । विपरीतलक्षणा जैमिनिना निरीश्वरवादिनेत्यर्थः । यथापकारिणि 'बहूपकृतं त्वये'ति बहूपकारित्वप्रयोगः । अक्षिपुरुष इति । 'जानश्रुतिर्ह पौत्रायण'इत्यारम्भकेऽस्ति । 'उ ह वै ज्येष्ठश्च श्रेष्ठश्चे'त्यारम्भके पञ्चाग्निविद्यास्ति छान्दोग्ये । 'स एतान् ब्रह्म गमयती'त्यक्षिपुरुषविद्यायाम् । 'स एतान् ब्रह्म गमयती'ति पञ्चाग्निविद्यायाम् । उभयत्रापि ब्रह्मपदेन परमेवोच्यते, न तु कार्यं ब्रह्मेति । पञ्चाग्निविद्यायां चेति । चकारोऽथवा सेश्वरजैमिनिमते इत्यनुक्तसमुच्चायकः । यद्वायवेत्याद्युक्तशेषो वा पूरणीयः । एतेन व्यासेन सूत्रे मन्नमयी देवता जैमिनिर्मुख्यत्वादित्यनुक्त्वा 'परं जैमिनिर्मुख्यत्वा'दित्युक्तं तत्स्वारस्यमसूचि । परिहृतत्वेनेति । सूत्रव्याख्यानारम्भ एव परिहृतत्वेन । श्रुतिसामञ्जस्य- मिति । 'स एतान् ब्रह्म गमयती'ति श्रुतिसामञ्जस्यं ब्रह्मपदे गौणिनिवृत्तिः, सा मतद्वयस्य पारक्ये परमते स्यात्, न तु स्वमत इति । तुरीयपादे बादरायणग्रहणात् तस्य बुद्धिसत्त्वेन जैमिनिसेश्वरवादि- स्वशिष्यस्य स्वमतसिद्धस्य सूत्रे ग्रहणं बीजमित्यर्थः । तेन 'परं जैमिनिर्दर्शना'दिति सूत्रान्वयः । 'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेन परमेव ब्रह्मोच्यते, दर्शनाच्छास्त्ररूपादिति जैमिनिराचार्यो मन्यत इति सूत्रार्थः । अग्रेति । वक्ष्यमाणसूत्रेण सहास्मिन् सूत्रे । वक्ष्यमाणविचारस्य द्वितीयसूत्रे करणात् । अपिचेतिप्रभृति द्वितीयभाष्यादत्रैव तद्विचार उपक्षिप्तः । 'कार्यं बादरिरस्ये'त्यधिकरणो- क्तेस्त्वान्न सूत्रयोरेकविषयत्वम् । अग्रे 'अप्रतीकालम्बनाधिकरणम्' । देशान्तरद्वारेण । यद्वा यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति । शारीर- ब्राह्मणे 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्य' इति देशान्तरवद्वा । अत्रापीति । व्यापके ब्रह्मण्यपि । तत्रेति । ब्रह्मणि । देशकालरूपविशेषयोगस्य । दृष्टान्तेति । बालवार्धक्यदृष्टान्तविरोधेन । तस्यान्यस्य 2238