अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2379, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ भाष्यप्रकाशः । अत्र वक्तुमशक्यत्वात् । न च जगदुत्पत्तिप्रलयहेतुत्वश्रुतेर्ब्रह्मणोऽनेक शक्तित्वान्न दोष इति वाच्यम् । विशेषनिषेधकश्रुतीनामनन्यार्थत्वात् । नचोत्पत्त्यादिहेतुत्वबोधकश्रुतीनामपि ब्रह्मपरत्वात् समान- मनन्यार्थत्वमिति वाच्यम् । तासामेकत्वप्रतिपादनपरत्वात् । तत्र मृदादिदृष्टान्तवाक्येषु 'मृत्तिकेत्येव सत्य'मित्युपसंहारे एकस्य कारणस्यैव सत्यत्वकथनेन विकारानृतत्वप्रतिपादने तद्धर्माणामुत्पत्त्यादीनामपि तथात्वेन शास्त्रस्य तत्परतया वक्तुमर्हतया तासां विशेषनिराकरण- श्रुतिशेषताया एव युक्तत्वात् । न चोत्पत्त्यादिश्रुतिशेषत्वं निर्विशेषश्रुतीनामेवास्त्विति शङ्क्यम् । विशेषनिषेधश्रुतीनां निराकाङ्क्षार्थत्वात् । आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः कदाचिदप्याकाङ्क्षान्तरानुदयेन तत्र पुरुषार्थसमाप्तिबुद्धयुत्पत्तेः । न चात्र मानाभावः शङ्क्यः । 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' 'अभयं वै जनक प्राप्तोऽसि', 'विद्वान्न बिभेति कुतश्चन', 'एतँ ह वा व न तपति किमहँ साधु नाकरव'मित्यादिश्रुतिभ्यस्तथैव विदुष- स्तुष्ट्यनुभावादिदर्शनाच्च मानत्वात् । तथा विकारानृताभिसन्ध्यपवादाच्च । 'मृत्योः स मृत्यु- माप्नोति य इह नानेव पश्यती'ति भेददृष्ट्यपवादाच्च । न विशेषनिषेधश्रुतीनामन्यार्थत्वं शक्य- वचनम् । उत्पत्त्यादिश्रुतीनां तु नैवं निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति, येन तच्छेषत्वं विशेष- निषेधश्रुतीनां वक्तुं शक्येत । तत्र हि, 'यत्रैतच्छुङ्गमभ्युत्पतितं तं सोम्य विजानीहि नेदममूलं रश्मिः । बालवार्धक्यन्यायस्य । अत्रेति । व्यापकस्य गन्तव्यतोपपत्तौ । अनेकेति । जगत्कर्तृत्वजगतपालक- त्वजगत्संहारकत्वरूपानकशक्तित्वाद्विशेषसत्त्वेपि न दोषः, कार्यलक्षणत्वेन ब्रह्मप्रतिपादियषा विषयर्थ- त्वाद्विशेषाणामिति वाच्यमित्यर्थः । विशेषनिषेधकेति । ताश्च 'निष्कलं निष्क्रिय'मित्याद्युक्ताः तासाम् । अनन्यार्थत्वादिति । निर्वाहकसंज्ञया ब्रह्म निरूपणपरत्वात् । न तु आरो- पापवादसंज्ञया ब्रह्म निरूपणपरत्वं तासाम् । आरोपापवादलक्षणसंज्ञातेर्निर्वाहकसंज्ञेतिरन्योऽर्थो भवत्येवम् । अन्योऽर्थः ब्रह्मप्रतिपादकत्वलक्षणः प्रयोजनम् । न अन्योऽर्थो यासां ता अनन्यार्थाः तासां भावः अनन्यार्थत्वम् तस्मात् । यथा विशेषप्रतिपादिकानां ब्रह्मलक्षणत्वम्, तथा विशेष- निषेधिकानामपि ब्रह्मलक्षणत्वम् । कार्यलक्षणत्वं स्वरूपलक्षणत्वमिति विशेषः । ब्रह्मपरत्वादिति । यथारोपापवादन्यायेन विशेषनिषेधिकानां ब्रह्मपरत्वम्, तथा निर्वाहकसंज्ञया विशेषप्रतिपादिकानां ब्रह्मपरत्वम् । यथा 'अथात आदेशो नेति नेति', तथा 'तदेजति तन्नैजती'ति । यथा शाखा- रुन्धतीन्यायः, तथा किमन्यद्ब्रह्मज्ञाननिर्वाहकम् इति जिज्ञासा । तथा जगज्जन्मादिकर्तृत्वं कार्य- लक्षणमुक्तम् । अतः समानमन्यार्थत्वम् । तासामिति । निर्विशेषप्रतिपादिकानामस्थूलादिश्रुतीनाम् । तत्रेत्यादीति एकत्वप्रतिपादने छान्दोग्ये मृदादिदृष्टान्तवाक्येषु । एतच्च द्वितीयाध्याये तदनन्यत्वाधि- करण उक्तम् । तद्धर्माणाम् ब्रह्मधर्माणाम् । तथात्वेनेति । विकारानृतत्वेन । तत्परेति । धर्मपर- तया वक्तुमर्हतया । ब्रह्मणो वागविषयत्वेनोत्पत्त्यादीनामर्हता तया । तासामिति । सविशेषप्रतिपादिकानां 'यतो वा इमानि भूतानी'त्यादीनाम् । अस्त्विति । यतो निरूपणं हि लक्षणैः । तानि चासाधारण- धर्मरूपाणि जगज्जन्मादिकर्तृत्वादीनि । तैर्निर्विशेषश्रुतिप्रतिपाद्यज्ञानमिति तथा । अन्तरङ्गत्वं बहिरङ्गाद्- बलीय इत्याहुः विशेषनिषेधेति । तत्रेति । एकत्वायुक्त्त आत्मनि । तुष्ट्यनुभवेति । आदिना संक्षोभोऽशङ्करजुषाम् । तथा विकारेति । छान्दोग्ये मृदादिवाक्येषु । भेददृष्टीति । न च नाना इव पश्यति स मृत्युमाप्नोति, किं पुनर्भेदमित्यर्थेन भेददृष्ट्यपवाद इति शङ्क्यम् । असार्यस्य नैयायिकमते शोभनात् । अन्यार्थत्वं शून्योत्तरार्थकत्वम् । तच्छेषत्वमुत्पत्त्यादिश्रुतिशेषत्वम् । तन्न हीति । १६ ब्र० सू० २०