अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 238, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१ एकस्मिन्ननुस्यूते संभवत्यनेककल्पनाया अन्याय्यत्वात् । लोके कर्तृविशेषवदु- पादानविशेषग्रहणेऽपि न ब्रह्मणि व्यभिचारः । अलीकप्रतीतेऽस्तित्वाविप्रती- तावपि सम्यगन्वयाभावान्न कार्यत्वव्यभिचारौ । तस्माद् ब्रह्मण एव समवा- यित्वम् । भाष्यप्रकाशः । ·न्यकल्पना न्यायविरुद्धत्वं प्रतिपत्त्यसौकर्यात् । किंन्त्वेकस्मिन् ब्रह्मणोऽन्वये संभवति तस्यैवानुस्यूतस्य समवायित्वं युक्तमित्यर्थः । एकस्मिन् समवायिनीति वार्थः । नन्वेनेक- समवायिकल्पनास्यान्याय्यत्वे मृत्तन्त्वादेरपि समवायित्वं न स्यात् । तथाच प्रत्यक्षविरोध इत्यत आहुः लोक इत्यादि । तथाच यथा लोके कुलालादीनां चतुर्मुखान्तानां कर्तृत्वेऽपि तन्मते प्रकृतेरीश्वरस्य च सर्वनियामकत्वान्न कर्तृत्वं हीयते एवं लोके तन्त्वादीनां परमाण्वन्तानां प्रकृत्यन्तानां वोपादानत्वेन ग्रहणेऽप्यस्मन्मते ब्रह्मणो मूलकारणत्वान्न समवायित्वहानिरित्यर्थः । ननु शुक्तिरजतादौ स्वाप्निकेषु चास्तित्वं प्रतीयत इति तेषु सदन्वयो वक्तव्यस्तथा सति तस्यापि ब्रह्मकार्यत्वे जगत्तुल्यतया सत्यत्वं स्यात् । तन्न विशेषदर्शनबाधितत्वादशक्यवचनम् । ततश्च न तस्य ब्रह्मकार्यत्वमपि । अतोऽकार्येऽपि सदन्वयान्न तेन ब्रह्मणः समवायित्वसिद्धिरित्यत आहुः अलीकेत्यादि । तथाचान्वयस्य न गमकत्व