भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 237, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 237

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ३ सू० ३ नच साधारण्येन सर्वजगत् प्रति परमाण्वादीनामन्वयः संभवति । भाष्यप्रकाशः । ग्राहयितुं, 'जन्माद्यस्य यतोऽन्वयात्' इत्यनेनान्वय एव हेतुत्वेनोक्तः । नच तन्नेतरत इत्यनेन व्यतिरेकस्याप्युक्तत्वात् तन्मात्रं कुतो नोक्तमिति शङ्क्यम् । ब्रह्मणो व्यापकत्वेनाभावरूपस्य व्यतिरेकस्याभावाद्विशेषणातिरिक्तस्वरूपो व्यतिरेकः कृत्स्नप्रसक्तिवारणायात्र विवक्षितः । स त्वनारोपितानागन्तुकस्वरूपबोधकेन सम्‌उपसर्गेणैव बोधित इत्यतः पृथगनुक्तेः । एवं चतुःश्लोक्या- मप्यन्वयव्यतिरेकाभ्यामित्यत्रापि बोध्यम् । एतदेवैकादशस्कन्धीये, 'यथा हिरण्यं सुकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवह्रियमाणं नानापदेशैरहमस्य तद्वत्' ॥ [

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 237, कुल 2600 में से · BharatKosha