अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 236, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। कथनस्य वैयर्थ्यापत्तेः। उच्चनीचभावादिनाऽविर्भावस्यैव प्रकर्षपदार्थत्वेन विवक्षितत्वादिति। एतेन दुष्टत्वादितीतावपि भगवदिच्छैव हेतुरिति न तथापि समवायित्वे दोषप्रसक्तिः। क्रीडार्थं तयैव दुष्टोत्पादनात्। एतद्प्येकादशस्कन्धीयविंशैकविंशाध्यायस्थैर्गुणदोषदर्शनस्य कर्मनियमार्थ- त्वबोधकवाक्यैरवसीयत इति नात्रापि शङ्कालेशः। अत एव न कचिदपि कुत्सितत्वं ब्रह्मविदां भासते। अत एवैकादश एवोक्तम्, 'किं वर्णितेन बहुना लक्षणं गुणदोषयोः। गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः' इति॥ नचैवं ब्रह्मणः समवायित्वे, 'सैषाऽविद्या जगत् सर्वम्' इत्यादितापनीयश्रुतिविरोधः शङ्क्यः। तस्याग्रे, न विलक्षणत्वाधिकरणे समाधेयत्वात्। तत्रापि तस्यादात्मन एव त्रैविध्यं सर्वत्र योनि- त्वमपीतिवक्ष्यमाणत्वादिति। अत एव श्रीभागवतारम्भश्लोकेऽपि ब्रह्मणः समवायित्वं रश्मिः। वैयर्थ्यापत्तेरित्यर्थः। विवक्षितत्वादितीति 'गर्दभीतराभवद्र्दभ इतरः' इति श्रुत्यन्तरे तथा- दर्शनादिति भावः। इतरा शतरूपा, इतरो मनुः। भाष्योक्तहेतुसमासावितिशब्दः। एतेनेति एतादृशप्रकर्षपदार्थेनेत्यर्थः। क्रीडार्थमिति एतच्च द्वितीयेऽध्याये 'लोकवत्तु लीलाकैवल्यम्' इति सूत्रे स्पष्टम्। कर्मनियमेत्यादि। 'विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते। अवेक्षतेरविन्दाक्ष गुणं दोषं च कर्मणाम्' ॥ इत्यादिना गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः' । इत्युक्तमाक्षिप्तम्। ततो भगवता 'स्वे स्वेऽधिकारे या श्रद्धा स गुणः परिकीर्तितः। कर्मणां जात्यशुद्धानामनेन नियमः कृतः॥ गुणदोषविधानेन सङ्गानां त्याजनेच्छया' । इति विंशे, एकविंशे च 'शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु। द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ। दर्शितोयं मयाचारो धर्ममुद्वहतां धुरम्' ॥ इति कर्मनियमार्थत्वबोधकवाक्यैः क्रीडार्थत्वमवसीयत इत्यर्थः। वाक्यार्थस्तु श्रीधर्यां स्फुटः। शङ्कालेश इति एतच्च द्वितीयाध्याये स्फुटतरमिति न शङ्कालेश इत्युक्तम्। कचिदिति लोके कुत्सितत्वेन प्रतीयमानेपीत्यर्थः। ब्रह्मविदामिति निरूपाविधानां भरतादीनामित्यर्थः। साविधानां प्रतीतिस्सविद्याकृतेति न प्रपञ्चवास्तविककुत्सितत्वसंपादनायालम्। शङ्खादौ वास्तवपीतत्वसंपा- दने सकाचण्डस्य प्रतीतिरितिवैति भावः। एकादश इति एकोनविंश इत्यर्थः। अग्रे इति द्विती- याध्याय इत्यर्थः। तत्रापीति तापनीय इत्यर्थः। त्रैविध्यमिति ब्रह्मविष्णुशिवरूपत्वमित्यर्थः। इतिवक्ष्यमाणत्वादिति इत्यात्मनः समवायित्वस्य वक्ष्यमाणत्वादित्यर्थः। समवायि- त्वमिति अभिन्ननिमित्तोपादानत्वयोर्मध्य इत्यर्थः। अतोऽभिन्ननिमित्तोपादानं जगद् ब्रह्मकारणक-