अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2384, कुल 2600 में से
संदर्भ में पढ़ें[१२६] श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० १ सू० १४.
भाष्यप्रकाशः। तथा निश्चयात् । अन्यथा, वाचारम्भणनामधेयपदयोरन्यतरप्रयोगमात्रेण विकारमिथ्यात्वसिद्धावन्य- तरवैयर्थ्यापत्तेर्दुर्वारत्वात् । अतो घटशरावादयो यथा मृद एव नामान्तरम्, तथा प्रपञ्चरूपो विकारो- पि ब्रह्मण एव नामान्तरमिति तत्र कारणानन्यतायामेव तात्पर्यात् । भगवता सूत्रकारेणापि तथैव सूत्रितत्वात् । अन्यथा 'तन्मिथ्यात्वमारम्भणशब्दादिभ्य' इत्येव वदेत् । 'यथा सुवर्णं सुकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्व'दित्येकादशस्कन्धीय- भगवद्वाक्याच्च । अतस्तासां कारणैक्ये एव तात्पर्यम्, न तु तटस्थ्यैक्ये । एवं कारणसत्यत्वावधारणा- दपिन तटस्थ्यैक्यसिद्धिः, कारणत्वेनैव सत्यत्वावधारणात् । न च कारणत्वेनापि कारणसत्यत्वाव- धार