सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2385, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2385

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७ भाष्यप्रकाशः । न तु सर्वात्मनाऽभेदरूपत्वम् । 'तत्त्वमसी'त्यादौ तस्य भावस्तत्त्वमिति व्युत्पत्त्या तथैव सिद्धत्वात् । सर्वात्मनाऽभेदस्य भागत्यागलक्षणादोषग्रस्तत्वेनाग्रहमात्रत्वात् । एतच्च, 'तद्गुणसारत्वात्तु तद्व्यपदेश' इत्यत्र व्युत्पादितम् । तदनन्यत्वाधिकरणे च । 'तत्र को मोहः कः शोक एकत्वमनुपश्यत' इति ईशावास्यवाक्येपि, 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत' इति पूर्वार्धेन ज्ञानिनः सर्वात्मभावो वामदेववत्तस्यामवस्थायामुच्यते इति तादृशीनां¹ श्रुतीनामपि पूर्वकक्षाविश्रान्तत्वमेव । रश्मिः । गौणाद्वैतरूपत्वम् । तथा च तन्न्यायस्य फलाध्यायेपि तौल्यं सूचितम् । ब्रह्मपदस्याक्षरे पुरुषोत्तमे च प्रयोगात् । गौणमद्वैतं फलप्रकरणे पुरुषोत्तमस्याधोक्षजत्वात् । 'अन्तरा भूतग्रामवत्स्वात्मन' इति सूत्रविषयत्वाच्च । एवकारव्यावर्त्यमाहुः न त्विति । मुख्याद्वैतस्याक्षरविषयत्वात् । फलाध्याये पुरुषोत्तमस्य मुख्यत्वात् । सर्वात्मनाऽभेदो भेदाभावः यथा सैन्धवखिल्यस्य सिन्धुना अभेदो मुख्यः । यथा घटस्य घटान्तरेणाभेदस्तादात्म्यरूपो अभेदो गौण इति । तत्त्वमसीत्यादाविति । आदिना ब्रह्माहमस्मीति । अन्यान्यष्टपदानि च । तत्त्वमसीत्येकादशपदात्मक उपदेश इति । तस्य भावस्तत्त्वमिति । तत् त्वमित्युपादानकार्ययोरभेदः सोक्षरेण अतस्तं विहाय कर्तृकारकघटितत्वाच्च । तस्य त्वमिति शेषषष्ठीघटिततादात्म्यरूपोऽभेदः पुरुषोत्तमविषये फलाध्यायत्वादुक्तः । षष्ठ्या अकारकत्वात् । द्वितीयसप्तमाध्याये 'शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्म- तत्त्वम् । शब्दो न यत्र पुरुकारकवान्क्रियार्थो मायापरैत्यभिमुखे च विलज्जमाने'त्यत्र पुरुषोत्तमे कारक- त्वाभावोक्तिः । तथैवेति । जीवपरब्रह्मैक्यस्य तादात्म्यरूपत्वस्यैव सिद्धत्वात् । जीवपरब्रह्मणो मुख्याभेदे दोषमाहुः सर्वात्मनेति । तथा च मुख्याभेदे स्वीकृते लीलावैचित्र्यं न स्यादिति दृष्ट- वैचित्र्यापलापो दोषः । नन्वधोक्षजे लीलावैचित्र्यदर्शनं केन करणेनेति चेन्न । महतामन्तःकरणस्य [