अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2387, कुल 2600 में से
संदर्भ में पढ़ेंभवति गौतमे'ति मुक्तिदशायामपि साम्यमात्रबोधनाच्च । तेन 'चक्षुषश्चक्षु'रित्यादिना परस्य ब्रह्मण एवोपक्रान्तत्त्वाद्यथा बृहदारण्यकेऽर्थः, तथात्रापीति न तेनापि विकारस्य मिथ्यात्वसिद्धिः । 'यत्रैतच्छुङ्गमनुत्पतित'मिति श्रुत्यापि जगन्मूलत्वेनैवैकत्वमुदर्कें प्रतिपादितम्, न तु ताटस्थ्येन । एवं, 'यतो वे'त्यादावपि ज्ञेयम् । अतः सर्वासां श्रुतीनामुपादानकारणैकात्म्यावगमपरत्वाद् विशेषनिषेधश्रुतीनां च लौकिकविशेषनिषेधपरत्वात् तासां परस्परसाकाङ्क्षतैव । शेषशेषिभावस्तु यथाधिकारं प्रकरणबलादनियत इति ब्रह्मण्यनेक शक्तियोगो निराबाध एव । तेन यत्तु तैः प्रश्नोपनिषद्भाष्यात् परापरे द्वे ब्रह्मणी अङ्गीकृत्य, यदविद्याकृतनामरूपादि- विशेषप्रतिषेधेनास्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत् परम्; यत्पुनर्नामरूपविशेषाणां केनचिद्- विशिष्टमुपासनायोपदिश्यते 'मनोमयः प्राणशरीर' इत्यादिशब्दैस्तदपरमिति प्रतिपादितम्; तत्र किं मानम् ? न तावदस्थूलादिवाक्यम्, मनोमयादिवाक्यं च । तत्र परापरशब्दयोरश्रवणात् । आद्ये अक्षरशब्देनैव लक्ष्यनिर्देशात् । यदि च मुण्डके, 'अथ परा यया तदक्षरमधिगम्यत' इत्य- क्षरविद्यायाः परत्वश्रवणात् तद्ध्येस्याक्षरस्य परत्वमिष्यते । बाढम् । तदा पुरुषस्य ततोपि परत्वमेव द्रष्टव्यम् । 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो विद्यया विजानत इत्यर्थादाहुः मुक्तीति । जीवन्मुक्तिदशायाम् । काठक उपक्रमस्य परमात्मपरत्वं क्लिष्टं मत्वा भाष्यस्य दिङ्मात्रत्वाय बृहदारण्यकेन एतत्प्रपञ्चयति स्म तेन चक्षुष इति । शारीरब्राह्मणे अर्धप्रपाठकसमाप्तौ 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः, ते निचिक्युः ब्रह्मपुराणमग्र्यं मनसैवानुद्रष्टव्यं नेह नानास्ति किंचने'ति, अग्रे 'मृत्योः स मृत्युमाप्नोति य इहे'त्यादि- श्रुतिः । चक्षुषश्चक्षुरित्यादिः चक्षुषश्चक्षुरित्यादिः तया । अत एव प्राण इत्याद्यतिदेशाधिकरणे प्राणस्य परब्रह्मतोक्तेः । बृहदारण्यकेऽर्थ इति । भेददृष्ट्यपवादः परब्रह्मस्वरूपगतभेददृष्टिविषय इत्यर्थः । तथात्रापीति । काठकेऽपि उक्तोऽर्थ इति । न तेन काठकेन । विकारस्येति । नाना पश्यति विकारैः कृत्वा नाना पश्यति इति विकारस्य मिथ्यात्वे मृत्योर्मृत्युत्रासेनैवेयं न विकारस्य मिथ्यात्वसिद्धिः । यत्रैतदिति । तत्रैतदित्यपि पाठः, तत्रेत्यप्सु । अङ्कुररूपं शुङ्गं कार्यम्, उत्पतितं जातम् । जगदिति जगत्समवायित्वेनैकत्वं कार्यकारणैकत्वम्, न तु विकारमिथ्यात्वेनैकत्वम् । नाप्युदकविकारयोरैक्ये नैकत्वम् । श्रौतत्त्वेऽपि जलस्य मूलकारणत्वाभावेन जन्माद्यधिकरणविरोधापत्तेः । उदर्कें ईषत्कालीय- फले मदनकण्टके वा । उदक इति वा पाठः । तदपः आचक्षते अशनायेति तत्रैतच्छुङ्गमनुत्पतितमिति श्रुतेः । तथापि फलाध्याये परोक्षवादादुदर्क इति । एवं कार्यलक्षणोक्तधर्मेणैक्यमुक्तम्, तटस्थलक्ष- णोक्तसत्यत्वादिधर्मैरित्याहुः न त्विति । 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्युक्तं तटस्थलक्षणम् । 'यतो वा इमानि भूतानि जायन्त' इत्युक्तं कार्यलक्षणं तदेवाहुः एवं यतो वेति । सिद्धमाहुः सर्वासामिति । सगुणनिर्गुणप्रतिपादिकानां श्रुतीनां फलाध्यायत्वाज् जगदुपादानमक्षरं लोकरूपं तत्रत्यो भगवान् रसात्मकजगदुपादानं तत्र कार्यकारणयोरैकात्म्यावगमः तस्माद्विरुद्धधर्माधारत्वादाहुः तासामिति । धर्मिप्रतिपादिकानां स्वलक्षणधर्माकाङ्क्षा, धर्मप्रतिपादिकानां च स्वाश्रयाकाङ्क्षेति परस्परसाकाङ्क्षता । शेषशेषीति धर्मप्रतिपादिकानां प्रतियोगिप्रतिपादकत्वाच्छेषभावः । धर्मनिषेधिकानां तु शेषिभावः । शेषः प्रतियोगी यस्यास्तीति शेषी निषेधः । तयोर्भावः शेषशेषिभावः । ज्ञानरूपमधिकारमनतिक्रम्य यथाधिकारम् । ज्ञानकर्मभक्तिप्रकरणबलात् । अनेकेति । जगज्जन्मादिकर्तृत्वादिसत्यत्वादिरूपानेक- शक्तियोगः । उभयव्यपदेशाधिकरणसत्त्वादेवकारः । आद्य इति । परस्मिन् । एवकारः पुरुषोत्तमयोगं