सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2388, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2388

१३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १४. भाष्यप्रकाशः । अक्षरात् परतः पर' इति तत्रैव श्रावणात् । न च तस्य यावद्विशेषशून्यत्वम् । तदग्रे, 'एतस्माज्जायते प्राण' इति मन्त्रेण तत एव सृष्टेः श्रावणात् । 'अग्निर्मूर्धे'त्यादिभिस्तद्रूपोपन्यासाच्च । नाप्यक्षरस्य तथात्वम् । अस्थूलादिश्रावणोत्तरं प्रशासनस्य वेद्यत्वद्रष्टृत्वादीनामाकाशोपादानत्वस्य च श्रावणेन, मुण्डकेपि, 'यत्तदद्रेश्य'मित्याद्युक्त्वा, 'यद्भूतयोनिं परिपश्यन्ती'त्यादिजगदुपादानत्वसर्वज्ञत्वा- दीनां श्रावणेन 'यावद्विशेषशून्यताया वक्तुमशक्यत्वात् । एवं वाक्यान्तरेष्वपि द्रष्टव्यम् । सर्वत्र एकस्यैव ब्रह्मणः प्रतिपाद्यत्वात् । अत एव श्वेताश्वतरेपि 'प्रधानक्षेत्रज्ञपतिर्गुणेशः', 'यो ब्रह्माणं विदधाति पूर्व'मित्यादीन् नानाधर्म