अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2389, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १३१ भाष्यप्रकाशः। द्वाक्यस्य 'द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधि- गच्छती'त्यादिवाक्यस्य च स्वारस्यात् । 'एतद्वै सत्यकाम परं च ब्रह्म'ति वाक्यविचारेऽप्यो- ङ्कारस्य, 'एतद्वै यजुस्त्रयीं विद्यां प्रती'ति श्रुतेः सर्ववेदमूलत्वेन वाच्याभिन्नत्वेन चोभयरूपत्वं प्रतिज्ञाय, तदभिध्यानफलकथने एकद्वित्रिमात्राध्यानेनर्ग्यजुःसामभिर्मनुष्यलोकसोमलोकसूर्यलोकेषु यथायथं महिमानुभवं फलमुक्त्वा, अर्धचतुर्थमात्रेणोङ्कारेण ध्याने, अथर्वभिर्ब्रह्मलोकप्राप्तिं चोक्त्वा, 'स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षत' इति फलमुक्तम् । शङ्कराचार्यमतेत्र त्रिमात्र एवोङ्कारोऽङ्गीकृतः । स पाठो यद्यपीदानीन्तनेभ्यः पुस्तकेभ्यः पाठिभिः पठ्यमानात् पाठाच्च विरुध्यते, तथापि त्रिमात्रध्यानेपि, 'ॐमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि परे सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते, एवं ह वै स पाप्मना विनिर्मुक्त' इत्येतावतो ग्रन्थस्य 'स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षत' इति ग्रन्थस्याग्रिमश्लोकद्वयस्य च वर्तमानत्वेन शब्दब्रह्म अपरम्, मृत्युमन्मात्राप्रतिपाद्यं वाप्यपरम्, जीवघनरूपो यो हिरण्य- गर्भः क्षरः पुरुषस्तस्मात् परमक्षरं ब्रह्म । परं ततोपि यः परः पुरिशयोऽन्तर्याम्युक्तः, श्लोकेपि 'तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं परायणं चे'त्युक्तः रश्मिः। वाक्येति । प्रश्नोपनिषत्स्थवाक्यमीमांसायामपि 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार' इति श्रुतेरोङ्कारस्य । एतदिति । ओङ्कारः यजुः मूलकारणं कां प्रतीत्यत आहुः । त्रयीं विद्यां प्रतीति श्रुत्यर्थः । मूलं शब्दरूपम् । सर्ववेदेति । त्रयीविद्यामूलत्वेन वाच्यं परं ब्रह्म तदभिन्नत्वेन । उभयरूपत्वं वाच्यवाचकरूपत्वम् । प्रतिज्ञायेति । उक्तश्रुत्या । तदभीति । 'स यद्येकमात्र- मभिध्यायीते'त्यादिना तदभिध्यानफलस्य लोकजयस्य कथने । एकद्वीति । 'स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव तस्यामभिसम्पद्यते किञ्चिदुक्त्वाग्रे द्विमात्रेण मनसि सम्पद्यते पुनः किञ्चिदुक्त्वा यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये इत्येवमेक- द्वित्रिमात्राध्यानेन । उक्त्वेति । अभिसम्पद्यत इत्यस्या अग्रे 'तमृचो मनुष्यलोकमपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पद्यते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवती'- त्यनयोक्त्वा । 'तथा द्विमात्रेण मनसि सम्पद्यत' इत्यस्या अग्रे 'सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते' इत्यनयोक्त्वा । यः पुनरित्यस्या उक्ताया अग्रे सामभिरुन्नीयते सूर्यलोकं स सूर्यलोके विभूतिमनुभूय पुनरावर्तत इत्यनयोक्त्वेत्यर्थः । अर्धचतुर्थेति । उक्तोङ्कार- चतुर्थमात्रेण । पुस्तकेभ्य इति । पञ्चम्यन्तमेको हेतुः । पाठिभिरित्यपरः । ओमित्येतेनेति । यः पुनरर्धचतुर्थमात्रेणोमित्येतेनेत्यादिः । एवं ह वा इति श्रुतिस्तु 'एवं ह वै स पाप्मना विनिर्मुक्तः सोऽथर्वभिरुन्नीयते ब्रह्मलोक'मिति । एतस्या अग्रे 'स एतस्माज्जीवघना'दिति श्रुतिः । अग्रिमेति । 'तदेतौ श्लोकौ भवतः । तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः । ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभिर्यत्तत्क- वयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं परायणं चे'त्यग्रि- मश्लोकद्वयस्य । तस्मात्परमक्षरं ब्रह्म, ततोऽपि यः पर इति पाठः । श्लोकेऽपि तमिति । परपुरुषम् । 2249