सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2392, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2392

Here is the complete, line-by-line transcription of the page into clean Unicode Devanagari:

निरस्तत्वात् । ब्रह्मणि प्रदेशानङ्गीकारेण निष्प्रदेशे तस्मिन्नविद्यासम्बन्धाङ्गीकारे सर्वस्य जीवता- पत्तेश्च तस्याप्यप्रयोजकत्वात् । विकारप्रतिबिम्बाभासपक्षाणामपि, 'नात्माऽश्रुते'रित्यादिसूत्रविचारे एव निरस्तत्वात् । जीवे ब्रह्मत्वव्यपदेशस्य सुषुप्तिसाक्षिभूतप्राज्ञदृष्टान्तेन गौणतायास्तद्गुणसारत्वा- धिकरण एव साधितत्वाच्च । तस्माज्जीवत्वमपि दुरपह्नवम् । तदेतदुक्तं, स्यादित्यारभ्य निरस्तत्वादित्यन्तेन । तथा च अपरस्य ब्रह्मणो गन्तव्यत्वमविद्यावतश्च गन्तृत्वं विद्याकृतं तदा स्याद्यदि भवदुपदर्शितो ब्रह्मणः परापरविभागो वा जीवस्य सर्वात्मना ब्रह्माभेदो वा श्रुति- स्मृतिसूत्रतात्पर्यगोचरः स्यात्, स एव तु नास्तीति वृथा बादरिमताग्रहाडम्बर इत्यर्थः । ननु न वृथा, ब्रह्मणो व्यापकत्वरूपस्य गन्तव्यताबा