अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2396, कुल 2600 में से
संदर्भ में पढ़ें११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १५. परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति । अत्रो- पक्रमानुरोधेन परेणैव ब्रह्मणा सह सर्वकामभोगलक्षणा प्रतिपत्तिरुच्यत इति भाष्यप्रकाशः। योगादमी गुणा आरोपिताः, न तु स्वाभाविकाः, तदापि तद्गुणस्योपास्यमानं सगुणं ब्रह्म तु नाब्रह्म भवति । न ह्यारोपितलौहित्यगुणयोगे स्फटिकोऽस्फटिको भवति । न वा स्वाभाविकस्य प्रकाशस्य प्रत्याख्यानेऽग्निरनग्निर्भवति । न वा द्रव्यप्रत्याख्याने गुणो नास्ति । वस्तुन उभयात्म- कत्वात् । 'विज्ञानमानन्दं ब्रह्म,' 'आनन्दो ब्रह्मे'ति श्रुतेः । शतगुणितोत्तरक्रमेणानन्दप्रति- पादनात् । यदि चैतन्यमात्रं ब्रह्म, तदा आनन्दगुणोपदेशोऽनर्थकः स्यात् । न चाकस्मार्दर्थ- वादत्वकल्पना युक्ता । यथाश्रुतग्रहणेऽनुपपत्त्यभावात् । अस्थूला