अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2397, कुल 2600 में से
संदर्भ में पढ़ेंकार्यरूपे वस्तुमात्रे प्रतिपत्तिर्न कापि श्रुतेरभिमता, अतोत्रापि परमेव ब्रह्म- पदेनोच्यते । श्रुत्यर्थस्त्वानन्दमयाधिकरणे प्रपञ्चित इति नात्रोक्तः ॥ १६ ॥ ॥ इति चतुर्थाध्याये तृतीयपादे तृतीयं कार्यं बादरिरित्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः। तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते, एतद्वै प्राणानामा- यतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त' इति प्रश्ने, मुण्डके च, 'सूर्यद्वारेण ते विरजाः प्रयान्ती'ति । कठवल्लीषु च परविद्याप्रकरणे, 'शतं चैका च हृदयस्य नाड्य' इति । परविद्यायामेव चैतरेयके श्रूयते 'असाल्लोकादुत्क्रम्यामूष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वा- ऽमृतः समभव'दिति । एवं तत्र तत्र गीतासु चावृत्त्यनावृत्ती विभागेनोक्ते । 'अमृतत्वं हि भेजिर' इति पुराणेषु च । ननु गतिश्रुतौ वाजसनेयके 'इहे'ति विशेषणादिह कल्पेनावृत्तिः कल्पा- न्तरेष्वावृत्तिरिति चेत् । न । 'श्वोभूत' इतिवदनुवादात् । 'यथा राजसूये ब्रह्मणो ग्रहे महिष्या ग्रह' इत्येवमादिना 'द्वादश हवींषि प्रत्येकं कर्तव्यानीति विधाय श्वोभूते निर्वपे'दित्युक्तम् । तत्रैकस्मिन् कृते पुनरपि श्वोभूत इत्युपतिष्ठते तद्वत् । 'इह कल्प इह कल्प' इति सर्वकल्प- व्याप्तिराकृतिनिर्देशात् । अपि चेह युगेवान्तरे कल्पे अन्यस्मिन् वेत्यनध्यवसानाद् आकृतिवादो युक्तः । अर्थवादसमाम्नातानां ग्रहैकत्ववद् वाक्यभेदात् पदानावृत्तिर्विधीयते, युगपत् सर्वकल्पा- नावृत्तिरेवावतिष्ठते । तत्रास्मिन्नेव कल्पे न कल्पान्तर इति अपरसिद्ध्यर्थं विधीयमाने वाक्यभेदो दुर्निवारः । यथा ग्रहं संमार्ष्टीति संमार्गे विधीयमाने सर्वग्रहेषु प्राप्तिः । तत्रैकस्येति पुनर्वि- धीयमाने वाक्यभेदः, तद्वदत्रापि अनावृत्तिर्न विधीयते । तदानीमिहेति पदं किंविशेषणं स्यात् । तस्मादिहपदमनुवादः । अत एव काण्वानामिहपदं न पठ्यते । तस्मादर्चिरादिना गत्वा परमा- त्मनि लिङ्गप्रलयो न प्रागिति श्रुतिसामर्थ्यान्निश्चीयते । विद्याकर्माध्यक्षा च गतिः संसारतरणी युज्यते । सत्यलोकमतिक्रम्य कारणे ब्रह्मणि सूक्ष्मशरीरस्य कारणात्मना विलयः । तथा रश्मिः। अर्चिरादिमार्गेणेति वा । अन्विष्येति ल्यबन्तम् । प्रश्न इति । प्रश्नोपनिषदि । विभागेनेति । धूममार्गार्चिरादिमार्गविभागेन । अस्येति । जीवस्य । भाष्यत्वाच्छोभूत इतिवत् पदं व्याख्यायते । यथा राजेति । ग्रह इति । पात्रविशेषे । तत्रेति । निर्वपेदित्युक्ते । तद्वदिति । कल्पान्तरेऽसा- नावृतिरित्यनुवादेनोपस्थितिः, न तु कल्पान्तरेऽस्यावृत्तिरित्यननुवादेन । आकृतीति । आकृतौ शक्तेः इहेत्यस्य श्रौतस्यैकत्र शक्तेरनुवादः, नत्वननूदितस्य कल्पान्तरेऽस्यानावृत्तिरित्यस्य समर्पकत्वम् । आकृतिवाद इति । एकत्राकृतौ शक्तिं गृहीत्वाऽन्यत्रानुवाद इति वादः । अर्थवादसमाम्नायेति । अर्थवादसम्भवादिति भास्करभाष्ये पाठः । अर्थवादभूतवेदेन ग्रहैकत्वं यथा । पदानावृत्ति- रिति । कल्पान्तरेऽस्यावृत्तिरित्यत्र । सर्वकल्पेति । सर्वकल्पेष्वनावृत्तिः सर्वकल्पानावृत्तिः । वाक्यभेद इति । इह कल्पेऽनावृत्तिर्भवति, कल्पान्तरेऽस्यावृत्तिर्भवतीति वाक्ययोर्भेदः 'अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति मीमांसकोक्तवाक्यभेदः । 'एकतिङ्वाक्य'मिति वैयाकरणाः । सम्मार्ग इति । सम्मार्गे सम्मार्जने परसवर्णः। तत्रेति । सर्वेषु ग्रहेषु । अनुवाद इति अनुवादार्थम् । विधा- १. विधीयमाने हविरन्तरे । २. अन्यस्मिन्नपि कल्पे विधीयमानावृतौ सोपि कल्पोवतिष्ठत इत्यर्थः । ३. कल्पत्व- रूपजातिनिर्देशादित्यर्थः । ४. विधेयविशेषणत्वाभावेन तव मतेनूद्य विशेषणं स्यात् । तथा चानूद्य गतसङ्ख्यायाः प्रतिषिद्धतत्वेन सर्वकल्पा नामेव प्राप्तिरित्यर्थः । 2257