अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2399, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २४१ सत्यपि वेदविहितत्वेनोपासनायाः कृतत्वेन सफलत्वात् तत्फलत्वेनोपासकाना- मर्चिरादिलोकप्राप्तावपि तान् अमानवः पुरुषो ब्रह्म न प्रापयति, किन्तु शुद्धब्रह्मत्वं ज्ञात्वा य उपासते, तानेव ब्रह्म प्रापयतीति बादरायण आचार्यो मन्यते । तत्र हेतुमाह उभयथा दोषादिति । वस्तुतो यद् ब्रह्मरूपम्, तत्राब्रह्मत्वनिश्चयः, उपासनार्थं च ब्रह्मत्वेन भावनम्, एवमुभयथाकरणे दोषः सम्पद्यत इति तस्य न ब्रह्मप्राप्तावधिकारोस्तीति युक्तं तदनयनमित्यर्थः । तथा च श्रुतिः । 'असन्नेव स भवति, असद् ब्रह्मेति वेद चे'दिति, 'योऽन्यथा सन्तमात्मानमन्यथा प्रति- पद्यते, किं तेन न कृतं पापं चोरेणात्मापहारिणे'ति । एवं ज्ञानमार्गीयव्यवस्था- भाष्यप्रकाशः। पूर्वकाण्डतात्पर्यं ब्रह्मणीत्यज्ञात्वा कर्मण्येव तात्पर्यमवधार्य तात्पर्यभ्रमेण यजतां स्वर्गाद्यनन्तरं पुनरावृत्तिः, तथा अत्रापि प्रतीकालम्बनानां तात्पर्यभ्रमेण तथोपासनाच्चतल्लोकभोगोत्तरमावृत्तिः, अथवा कार्यात्ययावधि तत्र वासः, न तु विद्याबलात् ततः पूर्वं मुक्तिरिति भगवत आचार्यस्याशय इत्यर्थः । हेतुं व्याकुर्वन्ति वस्तुत इत्यादि । एतयोर्दोषत्वे मानत्वेन यथायथं श्रुतिद्वयमुदाहरन्ति तथा चेत्यादि । तेनात्रैतावेव दोषावभिप्रेतावित्यर्थः । सूत्रशेषं व्याकर्तुमव- तारयन्ति एवं ज्ञानेत्यादि । व्याकुर्वन्ति सर्वमित्यादि । अस्मिन् पक्षे लकारार्थव्यत्यय रश्मिः। भवन्तीत्यभियुक्तोक्तेः सूत्रेष्वपि षडङ्गैरभिधेयनिर्णयादप्रतिकूलस्मरणालम्बनानित्यर्थो भवति । इण्विका- वध्युपसर्गं न व्यभिचरत इत्यस्य छन्दसि विकल्पः । पुराणमते तु वक्ष्यमाणगारुडवाक्याद्देवतादीनित्यर्थो भवति । तथा च श्रौते मते प्रतिकूलत्वं भ्रमविषयत्वमतस्मिंस्तत्त्वेन चोप समीपे स्थित्वा यथायोग्यान्त- र्गतस्मरणस्य करणमित्यर्थः । एकादशसुबोधिन्यां 'उप समीपे स्थित्वा यथायोग्यकरणमुपासन'मि- त्युक्तम् । तथेति । अप्रतीकालम्बना इत्युच्यन्त इत्यर्थः । तेषामिति । उपासकानाम् । पूर्वकाण्डे- त्यादि । ब्रह्मणीति हरौ । अक्षर इति यावत् । 'वेदे रामायणे चैवे'त्युपक्रम्य 'हरिः सर्वत्र गीयत' इति वाक्यात् । 'अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तम'मिति वाक्याच्च । महानारायणे 'वह्निशिखाया मध्ये परमात्मा व्यवस्थितः स हरिः सेन्द्रः सोक्षरः परमः स्वरा'डिति श्रुतेः । तथाप्यत्राभिधा- वृत्तिः, न तात्पर्यमिति ब्रह्मणीत्यस्य स्वःपदास्पदे आत्मसुख इत्यर्थः । स्वर्गपदस्य लोके शक्तिः । स्वःपदास्पदे तात्पर्यमिति । तेन हिरण्यगर्भमोक्षरूपे ब्रह्मणीति जैमिनिमते मोक्षः फलं स्मारितम् । किं च । भक्तेस्तात्पर्यविषयत्वस्य पुरस्तादुक्तत्वेन तद्विषयस्यापि तात्पर्यविषयत्वम् । 'धर्मो यस्यां मदात्मक' इत्येकादशस्कन्धात् । अभिधा तु हीदमित्थतया धर्मेषु यागसृष्टादिकर्तृत्वेषु न मदात्मके धर्मे इति । कर्मण्येवेति 'कर्मैके तत्र दर्शना'दिति जैमिनिसूत्रे एक इति पदात् कर्मण्येव यागादौ साध्ये तत्प्रतीतीच्छयोच्चरितत्वरूपं तात्पर्यमवधार्येत्यर्थः । कर्मपदं स्वसाध्ये स्वर्गे लाक्षणिकम्, फलभ्रमेण । स्वर्गादीत्यादिना वृष्टिप्रतिष्ठादि । तथोपासनादिति । प्रतीकत्वेनोपासनात् । तत्रेति । ब्रह्मलोके । तत इति । ब्रह्मलोकवासात्पूर्वम् । आचार्यस्येति । व्यासस्य । तेनेति । श्रुतिबलेन श्रुतिद्वयेन वा । अवतारयन्तीति । न्यूनतारूपनिग्रहस्थानरूपदोषाभावाय तथेत्यर्थः । तेन तत्क्रतुर्विधा च नयतीति योजना नोक्ता । सर्वमित्यापीति । तस्येति भक्तस्य । एतदिति ।