अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2400, कुल 2600 में से
संदर्भ में पढ़ें१४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ४ सू० १६. मुक्त्वा भक्तिमार्गीयस्यापि तामाह तत्क्रतुश्चेति । 'सर्वं मद्भक्तियोगेने'ति वाक्यान्न तस्योपासनापेक्षेति न प्रतीकादिसम्भावना । तत्र 'कथञ्चित् यदि वाञ्छती'ति वाक्यादिच्छामात्रेण तद्भोगकरणानन्तरं प्राचीनभगवद्भजनलक्षण- क्रतुश्च नीयत इत्यर्थः । वस्तुतस्तु भक्तस्यान्यमानवपुमपेक्षाभावात् स्वयमेव ब्रह्म- लोकान् प्राप्नोतीति ज्ञापनाय प्रथमान्त उक्तः । ननु ब्रह्मणोऽधिकं न किञ्चिदस्ति । 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुतेः । एवं सति छान्दोग्ये सनत्कुमार- नारदसंवादे 'स यो नाम ब्रह्मेत्युपास्ते' इत्यादिना नामवाङ्मनःसङ्कल्पचित्तध्यान- विज्ञानादीनां ब्रह्मत्वेनोपासनमुत्तरोत्तरं पूर्वस्मात् पूर्वस्माद् भूयस्त्वं चोच्यते । अतो न ब्रह्मत्वं सर्वेषामुपास्यानां वक्तुं शक्यमिति चेत् । मैवम् । विभूतिरूपाणां नियत- फलदातृत्वाद् येन रूपेणाल्पफलदानम्, तत्राधिकगुणप्राकट्ये प्रयोजनाभावात् तावन्मात्रगुणप्रकटनम्, येन रूपेण ततोधिकफलदानम्, तत्र ततोधिकगुण- भाष्यप्रकाशः। इत्यरुच्या प्रकारान्तरमाहुः वस्तुत इत्यादि । तथा च सूत्रे नयतीति कर्तरि लट्प्रयोगात् तत्क्रतु- रिति प्रथमान्तप्रयोगाच्चैवं ज्ञायते । यो ब्रह्मत्वेनाङ्गोपासनकर्ता, स तत्क्रतुर्भक्तः सन् स्वयमेव स्वात्मानं भक्तिबलेन नयतीति न प्रयोगव्यत्ययोपीति । एतेन निबन्धे, 'सूर्यादिरूपधृग्ब्रह्मे'- त्यस्य प्रकाशे भक्तिद्वारा ज्ञानाङ्गत्वं यदङ्गोपासनस्योक्तम्, तत्समर्थितं ज्ञेयम् । उपास्यरूपाणा- मसत्त्वेन ज्ञानस्य तेष्वब्रह्मज्ञानस्य च यद्दोषत्वमुक्तम्, तत्र शङ्कते ननु ब्रह्मण इत्यादि । अतो न ब्रह्मत्वं सर्वेषामुपास्यानामिति । न्यूनत्वरूपाद् बाधकाद् न ब्रह्मत्वं भूमव्यति- रिक्तानामुपासनानाम् । तथा च तेषां ब्रह्मत्वस्य बाधितत्वात्तेष्वसत्त्वान्नब्रह्मत्वज्ञानयोर्न दोषत्वमिति पूर्वोक्तः सूत्रार्थोऽसङ्गत इत्यर्थः । तत्र समादधते मै