अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2401, कुल 2600 में से
संदर्भ में पढ़ेंप्रकटनमिति पूर्वभावाधिक्यमुच्यते । एवमेव सर्वत्र । नियतफलदानं तु स्वतन्त्रे- च्छत्वाल्लीलारूपमिति नानुपपन्नं किञ्चित् । प्रतिमादिष्वावाहनेन सन्निहिते विभूतिरूपे तद्भावनं पूजामार्गे । भक्तिमार्गे तु भक्त्या तत्र प्रकटे तथा । गुरौ तु, ‘शाब्दे परे च निष्णातं ब्रह्मणी’ति विशेषणवत्त्वेन भगवदावेशात् तत्र तद्भावन- मिति सर्वमवदातम् । अपि च बादरिजैमिनिमतोक्त्यनन्तरं स्वमतोक्त्या तत्समानविषयत्वमत्रापीत्यवगम्यते । तत्र च कार्यब्रह्मलोकप्राप्तिपरब्रह्मप्राप्ति- विषयत्वमुक्तं पूर्वोत्तरपक्षभेदेन । बादरिमिते सविशेषस्यैवोपास्यत्वाद्विशेषाणां चाविद्यकत्वादुपासनानां सर्वासां प्रतीकत्वमेव सिध्यति । एवं सति ‘अप्रती- कालम्बनान्नयती’ति वदता व्यासेन बादरिमतानुसारिण उपासकस्य न कस्यापि ब्रह्मप्राप्तिरिति ज्ञाप्यते । वस्तुतस्तूपासनायामुपास्यस्वरूपज्ञानस्याप्यङ्गत्वात्त- न्मतीयानामुक्तरीत्या तदभावेन निरङ्गत्वादर्चिरादिप्राप्तिरपि न सम्भवति, किं पुन- र्ब्रह्मण इति निगूढाशयो व्यासस्य । एवं सति परप्राप्तावेवोपोलकमुक्तं भवतीति सैव व्यासाभिमतेति सिद्धम् । ये तु प्रतीकेष्वब्रह्मक्रतुत्वं वदन्तः पञ्चाग्निविद्या- यास्तथात्वेपि वचनबलात्तद्भूतो ब्रह्मप्राप्तिरिति वदन्ति, तन्नेत्युच्यते । वचनं तु वस्तुसतः पदार्थस्य बोधकम्, न तु कारकम्, अतस्तच्चेद् बोधयति तदा भाष्यप्रकाशः। आहुः प्रतिमादिष्वित्यादि । अत्रादिपदेन ‘सूर्योऽग्निर्ब्राह्मणा गाव’ इत्याद्युक्तानां पूजापदानां सङ्ग्रहः । आवाहनेन सन्निधानं च ‘अप्सुग्नौ हृदये सूर्ये’ इत्याद्युक्तस्य नित्यसन्निधानस्याप्युप- लक्षणम् । तथा च प्रतिमादिष्वपि शास्त्रप्रामाण्यात् कथञ्चन तत्तद्रूपसन्निधानमेव तत्तत्फल- दानादिप्रयोजकम्, न तु बुद्धिमात्रम्, अतः शास्त्रादेव तथा आग्रह इत्यर्थः । अत्रर्षिद्वय- मतोक्त्यनन्तरं स्वमतकथनस्य तात्पर्यं स्फुटीकुर्वन्ति अपि चेत्यादि । प्रतीकतरूपत्वमिति । प्रतीकोपासनारूपत्वम् । एवं सतीत्यादि । ब्रह्मणः प्रतीकालम्बनाप्राप्यत्वे अङ्गरूपालम्बनप्राप्यत्वे च सति । अप्रतीकालम्बननयनकथनं परप्राप्तावेवोपोलकत्वेन सिद्धयतीति सैव तथेत्यर्थः । अत्र शाङ्करमतमनुवदन्ति ये त्वित्यादि । तद्भूत इति पञ्चाग्न्युपासकस्य । तद्दूषयन्ति तन्ने- त्यादि । तस्मिन् मते वक्ष्यमाणं दूषणमुच्यते । विधिभिन्नं वचनं वस्तुसतः पदार्थस्य बोध- रश्मिः। लूकू । अयमात्मा । अप्स्वग्नाविति । इदं धर्मशास्त्रग्रन्थे कस्मिंश्चिल्लिखितं द्रष्टव्यम् । तत्तद्रू- पेत्यादि । भाष्ये । ननु विभूतिरूपत्वेपि नियतफलदाने अनियतफलदानोपरोधजानन्द- स्वरूपैकरसत्वविरोधस्तु स्यात्, अत आहुः सर्वत्रे । नियतेति । तद्भावनमिति स्नेहभावनम् । भक्त्येति । ‘भक्त्याहमेकया ग्राह्य’ इति वाक्याद्गत्या प्रकटे । तरतमभावो भक्तौ द्रष्टव्यः । भक्तिमार्गस्य बहुविधत्वेन भावभेदात् । शाब्द इति । शाब्दे परे च ब्रह्मणि निष्णातं गुरुमित्येवं विशेषणवत्त्वेनेत्यर्थः । तद्भावनं भगवद्भावनम् । ‘तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम’ इति श्रुतेः । बुद्धिमात्रमिति । अब्रह्मरूपप्रतिमादौ तत्तत्फलदानादिप्रयोजकम् । तथाग्रह इति ब्रह्मरूपत्वा- ग्रहः । ऋषिद्वयेति जैमिनिबादरिरूपर्षिद्वयमित्यर्थः । स्वमतेति बादरायण इति सौत्रपदाद् बादरा- यणमतकथनस्य । अपि चेत्यादीति । निगूढेति नितरां गूढा वासना । सैवेति परप्राप्तिरेव । १. अत्र परिशिष्टे मुद्रितः शोधो द्रष्टव्यः ।