अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2405, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७ विजृम्भितमेव, यतो 'मन उपास्वे'त्युक्त्वा तदुपासनाफलं 'यावन्मनोगतं तत्रास्य कामचारो भवती'ति वदिष्यंस्तदुपासनाया एतत्फलसाधकत्वे प्रयोजक- रूपाकाङ्क्षायामाह 'मनो ब्रह्मे'ति । इतिशब्दोत्र हेतुत्ववाची । तथा च यतो मनो ब्रह्म, अतो हेतोस्तदुपासनं तादृक्फलसाधकमित्यर्थः । अत एव, 'मनो हि ब्रह्म मन उपास्वे'ति पूर्वमुक्तम् । सर्वत्रैवमेव ज्ञेयम् ॥ १६ ॥ ॥ इति चतुर्थाध्याये तृतीयपादे चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः। पूयीभावशोषणात्मकदोषदर्शनेन ब्रह्मता निराक्रियते, न तु श्रुत्योपासत्वेनोक्तयोः । तयै- तयोर्दोषयोः क्वाप्यसिद्धत्वात् । प्रत्युत तैत्तिरीयके, 'अद्यतेत्ति च भूतानी'त्यन्नप्रशंसाश्लोके प्रसिद्धविरुद्धस्यात्तृत्वस्य प्राणश्लोके, 'तस्मात् सर्वायुषमुच्यत' इति सर्वायष्ट्वस्य, मनःश्लोके, 'आनन्दं ब्रह्मणो विद्वा'निति ब्रह्मानन्दरूपत्वस्य च धर्मस्य श्रावणेन, बृहदारण्यकीये, 'तन्न तथे'ति वाक्ये तद् अन्नप्राणयोर्ब्रह्मत्वं न तथा, न तदुक्तप्रकारेण, किन्तु श्रुत्युक्तप्रकारेणेत्यर्थस्य लभ्यमानत्वाच्च । एवं पञ्चाग्निविद्यास्थयोषापुरुषयोरपि भगवद्विभूतिरूपयोरेवोपासत्वं ज्ञेयम् । 'सर्वयोनिषु कौन्तेय मूर्तयः प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते'ति गीता- वाक्ये तासां तत्तदनुरूपाणां मूर्तीनां तत्तत्कारणभावापन्नयोः प्रकृतिपुरुषयोर्मातापितृभावेन कथनात् । देवकृतरेतोब्जोहोमस्य तत्रैव युक्तत्वाच्च । 'तदभिध्यानादेव तु तल्लिङ्गात् स' इति सूत्रे तथैव सिद्धत्वात् । अन्तर्यामिब्राह्मणे, 'यः सर्वेषु भूतेषु तिष्ठ'न्नित्यादिश्रावणाच्चेति । तस्मा- द्भासङ्गतिलेश इति दिक् । तेन यत्रोपास्यविशेषणतया ब्रह्मपदमूच्यते, यत्र वा ब्रह्मप्राप्तिरूपं फलम्, अन्यद्वा ब्रह्मत्वगमकं तात्पर्यलिङ्गं लभ्यते, तत्र तस्या उपासनाया अप्रतीकत्वमिति बोध्यम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यवस्थोक्ता । अग्रे तु प्रासङ्गिकमुच्यते । ज्ञानिभक्तयोर्गमने प्रकारविशेषदर्शनेनाकाङ्क्षाविशेषोदयादिति ॥ १६ ॥ इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥ रश्मिः। श्रुतेः । श्रुत्येति बृहदारण्यकश्श्रुत्या । उक्तयोरिति तैत्तिरीयोक्तयोः । तत्रेति तैत्तिरीये । दोषयोरिति शोषक्वेदनयोः । प्रशंसेति । 'अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेत्ति च भूतानि तस्मादन्नं तदुच्यत' इति श्लोके । असदुत्कर्षाधायकं गुणवर्णनं प्रशंसा । पूर्वार्धे स्फुटा । उत्तरार्धेन्नपदनि- र्वचनम् । भूतैरद्यते अदन्ति च भूतानीति । यद्वा उत्पत्तिस्थितिसमभिव्याहारादन्नेन भूतानि अद्यन्ते अन्नं भूतान्यत्तीति लय उक्तः । तस्माज्जगज्जन्मादिकर्तृत्वात् । अत एव आहुः प्रसिद्धेति । प्राणश्लोक इति । 'प्राणं देवा अनुप्राणन्ति, मनुष्याः पशवश्च ये, प्राणो हि भूतानामायुः, तस्मात्सर्वायुषमुच्यते' इति प्रशंसाश्लोके । मनःश्लोके 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचने'ति प्रशंसाश्लोके । तदुक्तेति मायावाद्युक्तेन प्रकारेण । ननु मायावादिश्श्रुतिविचारे केति चेन्न । 'अनागतमतीतं चे'ति वाक्यात् । असङ्गतीति । मन- आद्युपासनासु ब्रह्मक्रतुत्वासङ्गतिः तस्या लेशः । उपास्यविशेषणेति । ब्रह्माहमस्मीत्यत्र यथा । ब्रह्मप्राप्तिरूपमिति । 'ब्रह्मविदाप्नोति पर'मित्यत्र । ब्रह्मत्वगमकमिति । 'सर्वाणि ह वा भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती'त्यत्र ब्रह्मत्वगमकं जगज्जन्मादिकर्तृत्वं आकाशपदस्य ब्रह्मणि तात्पर्यं लिङ्गम् । अप्रतीकत्वमिति । एतेषां शुद्धब्रह्म ज्ञात्वोपासकत्वेन अप्रतीकालम्बन- त्वात्तेषामुपासनाया अप्रतीकत्वम् ॥ १६ ॥ इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥ 2265