सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2406, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2406

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ५ सू० १७. विशेषं च दर्शयति ॥ १७ ॥ ( ४-३-५ ) सर्वाण्युपास्यानि रूपाणि ब्रह्मरूपाण्येवेति तदुपासकानां परमाप्तिरेवेति सिद्धम् । तत्रेदं चिन्त्यते । ज्ञानमार्गीयाणां भक्तिमार्गीयाणां चाविशेषेणैव पर- प्राप्तिः, उत कश्चिद्विशेषोस्तीति । तत्र उभयोरपि ब्रह्मोपासकत्वेनाविशेषेणैव फलं भवतीति प्राप्ते, प्रत्याह विशेषं च श्रुतिर्दर्शयति । तैत्तिरीयके पठ्यते । 'ब्रह्मविदाप्नोति पर'मिति गूढाभिसन्धिना सामान्यत एतावदुक्त्वा, गूढं तमुद्घाटयन्त्यतिगोप्यत्वमसिद्धैर्वक्तुमशक्यत्वं च ज्ञापयन्त्याह 'तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति । तत् पूर्वोक्तं प्रतिपाद्यत्वेनाभिमुखीकृत

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2406, कुल 2600 में से · BharatKosha