सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2407, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2407

इहायमाशयो ज्ञेयः । ‘नायमात्मा प्रवचनेने’ति श्रुत्या भगवद्वरणातिरिक्त- साधननिरासः क्रियते पुरुषोत्तमप्राप्तौ । एवं सत्यक्षरब्रह्मज्ञानस्य तत्साधनत्वे उच्यमाने तद्विरोधः स्यात् । तेनैवमेतदर्थो निरूप्यते । ज्ञानमार्गीयाणामक्षरज्ञाने- नाक्षरप्राप्तिः, तेषां तदेकपर्यवसायित्वात्, भक्तानामेव पुरुषोत्तमपर्यवसायित्वात् । तदुक्तं भगवद्गीतासु ‘एवं सततयुक्ता य’ इति प्रश्ने, ‘मय्यावेश्य मनो ये माम्,’ ‘ये त्वक्षरमनिर्देश्यम्’, श्रीभागवते च ‘भक्त्याहमेकया ग्राह्यः,’ ‘तस्मान्मद्भक्तियुक्तस्ये’त्युपक्रम्य, ‘न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे’- त्यादिना । तथा च ब्रह्मविदं चेद् भगवान् वृणुते, तदा भक्तिरुदेति । तत्प्रचुरभावे सति स्वयं तद्बुवि प्रकटीभविष्णुः स्वस्थानभूतं व्यापिवैकुण्ठं तद्गुहायां हृदयाकाशे प्र

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2407, कुल 2600 में से · BharatKosha