अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2418, कुल 2600 में से
संदर्भ में पढ़ें१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ६. चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मा- ऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन' इति श्रुतौ घनपदेन ज्ञानात्मकविग्रहात्मत्वं ब्रह्मणो बोध्यते, अन्यथा न वदेत्, प्रयोजनाभावात् । तथा च तादृशेन सह भोगकर्त्रा तादृशेनैव भाव्यमिति, चिति चिद्रूपे ब्रह्मणि, तन्मात्रेण चिन्मात्रेण रूपेण कामान् भुङ्क्ते, न तु विग्रहेण । श्रुतौ जीवस्य तथात्वस्यानुक्तेः । पूर्णा- नन्दत्वाद्भगवतस्तत्सम्बन्धेन तदानन्दाननुभवतीत्यर्थः सम्पद्यते । चिदात्मत्वं जीवस्य यतो नैसर्गिकमित्यौडुलोमिराचार्यों मनुते 'अशरीरं वा वे'तिश्रुतिरेता- दृशान्यविषयिणीति ज्ञेयम् । मुक्तिदशायां तदनुभवस्य भगवदिच्छाविषयत्वा- भावान्न तथा । तथा चैतदेतज्जातीयकानन्दानुभवोऽस्य भवत्विति भगवदिच्छैव श्रुतौ कामशब्देनोच्यते ॥ ६ ॥ भाष्यप्रकाशः । चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ व्याकुर्वन्ति स इत्यादि । न वदेदिति । घनपदं न वदेत् । तथात्वस्येति । विग्रहवत्त्वस्य । अन्ये तु चितितन्मात्रेणेत्येकं पदमङ्गीकुर्वन्तश्चिन्मात्रेणाविर्भवतीत्यर्थमाहुः । तन्मते इक्प्रत्ययान्तस्य चितिपदस्य धातौ शक्तेस्तदर्थे लाक्षणिकत्वं तत्पदव्यर्थता च । भास्कराचार्यास्तु चैतन्यसन्मात्रेणेत्यर्थमाहुः । तन्मते तत्पदवैयर्थ्यं न भवतीति पूर्वा- पेक्षया तत्सम्यगिति बोध्यम् । नन्वशरीरस्य प्रियाप्रियभोगः श्रुत्या निषिध्यते, न तु सशरीरस्य, 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती'ति श्रुतेस्तस्य का गतिरित्यत आहुः अशरीरमित्यादि । 'अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशत' इति श्रुतिस्तु प्रियपदस्याप्रियपदसमभिव्याहा रादेतादृशान्यविष- यिणी एतादृशभगवदानन्दादन्यो यो दुःखसम्भिन्न आनन्दस्तद्विषयिणीति न तद्विरोध इत्यर्थः । तत्र हेतुमाहुः मुक्तीत्यादि । तदनुभवस्येति । दुःखसम्भिन्नसुखानुभवस्य । तर्हि सुखे वैजात्या- भावात् 'कामानि'ति बहुवचनस्य का गतिरित्यत आहुः तथा चेत्यादि । तथा च तादृगि- च्छानुरूपे तदिच्छाविषयस्यानन्दस्याप्यनुभवश्चिन्मात्रेणैव रूपेण, न तु तत्र विग्रहस्याप्यपेक्षेति औडुलोमेर्मतमित्यर्थः । एतेन 'चैत्यस्य तस्वममलं मणिमस्य कण्ठ'इत्यादि स्मारितं ज्ञेयम् ॥६॥ रश्मिः । चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ इक्प्रत्ययान्तस्येति । इक्श्तिपौ धातुनिर्देश इति सूत्रविहितेक्प्रत्ययान्तस्य । तदर्थे इति । धात्वर्थे संज्ञाने । चिती संज्ञाने संज्ञानं धात्वर्थः । दुःखसम्भिन्नति । दुःखमिश्रः । भाष्ये । तथेति । एतादृशान्यविषयिणी । कामानिति । 'सोऽश्नुते सर्वान्कामा'निति श्रुतौ । तादृगिति । कर्मपदवाच्येच्छानुभवे । इच्छावानह- मित्याकारके । इच्छायाः सविषयत्वनियमादाहुः तदिच्छेति । अनुभव इति आनन्दविषयकेच्छावा- नहमिति । चिन्मात्रेणेति । एवकारोऽप्यर्थे । अपिगर्हायाम् । सच्चिदानन्दत्वाद्ब्रह्मणः अंशद्वयत्यागाद् गर्हा । व्यासगृहीतत्वाद्गर्हितस्य प्रयोजनमाहुः एतेन चैत्यस्येति । प्रकृते द्वादशस्कन्धीयम् । तथा च [