अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2419, कुल 2600 में से
संदर्भ में पढ़ेंएवंमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ परमाचार्यो बादरायणस्तु नैवं मनुते । 'ब्रह्मविदाप्नोति पर'मित्यस्योपन्यास एवमपि विग्रहवत्त्वेनापि कृतो यतः । तथाहि । 'यो वेद निहितं गुहाया'मित्यत्र गुहाया उक्तत्वात्तस्या विग्रह एव सम्भवात् । किञ्च । प्रथमान्तोपस्थितत्वेन 'प्राप्नोती'त्युक्त्या च ब्रह्मविदः परप्राप्तौ स्वातन्त्र्यं ज्ञाप्यते । तदेव 'ब्रह्मणा सहे'ति भाष्यप्रकाशः। एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ सिद्धान्तं व्याकुर्वन्ति परमेत्यादि । एवमिति । औडुलोम्युक्तरीत्या । उपन्यासादिति हेतुं व्याकुर्वन्ति ब्रह्मेत्यादि । तथा च यदि तन्मात्रेणैव भोगः श्रुत्यभिप्रेतः स्यात्, तदा विग्रहवत्त्वेनोपन्यासो न क्रियेत । यत एवमतो न चिन्मात्रमतं साधीय इत्यर्थः । नन्वत्र विग्रहाश्रवणात् कथं तथोपन्यासोऽ- ङ्गीक्रियत इत्यतस्तदुपपादयन्ति तथाहीत्यादि । तस्या इति । गुहायाः । तथा चात्र ब्रह्म- वित्पदेनापरोक्षब्रह्मज्ञानवानुच्यते, तस्याशरीरत्वे तद्व्याख्यानभूतऋक्पूर्वार्धे गुहापदं न वदेत् । न च तत्र साधनदशापन्नस्यैव विग्रह उच्यत इति वाच्यम् । 'यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्येव भवती'तिवदवस्थाभेदगमकपदाद्यभावात् । 'वेदे'ति 'अश्नुत' इति च समान- कालबोधकपद्विरोधापातात् कामभोगस्य विग्रहवत्त्वात्तदभावे, 'सोऽश्नुत' इत्यादिनाक्तस्य फलस्य विरोधापत्तेश्च । अतो गुहापदव्याकोपात्तदुक्तो भक्तविग्रहाभावपक्षोऽसङ्गत इत्यर्थः । उत्तरार्धमादाय युक्त्यन्तरमाहुः किञ्च प्रथमेत्यादि । तथा चौडुलोमिमते कामपदव्याकोपाऽ- रश्मिः। एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ ब्रह्मेत्यादीति । यत इति । यत्तदोर्नित्यसम्बन्धात्तस्मादुपन्यासादित्यर्थः । विग्रहवत्त्वाक्षेपलभ्यस्यास्पष्टत्वात्स्पष्टयन्ति स्म तथाहीत्यादि । अतो विग्रहवत्त्वमाक्षिप्यत इति भावः । तथा चात्रेति । अत्र श्रुतौ । ब्रह्मवित्पद इति सप्तम्यन्तम् । अपरोक्षब्रह्मज्ञानवान्नोच्यत इति नञ्शब्दान्वयः । तस्य शरीरत्व इति । तस्य ब्रह्मविदः । 'तस्यैष आत्मा वृणुते तनुं स्वा'मिति पाठे वृणुतेः प्रकाशार्थत्वादात्तस्य वृतभक्तस्य एष आत्मनोप्यात्मा तं स्वां स्वीयां तनुं तनुत्वेन वृणुते सम्भजते इत्यर्थाच्छरीरत्वे । न वदेदिति । शरीरे नित्यलीलायां निहितत्वादधिकरणान्तरं न वदेत् । तस्याशरीरत्व इति पाठे अतो ब्रह्मवित्पदेऽपरोक्षज्ञानवान्नोच्यत इति भावः । तत्रेति । 'ब्रह्मविदाप्नोति पर' मित्यादिश्रुतौ । एवेति । फलदशायोग्यव्यवच्छेदक एवकारः । अवस्थाभेदेति । जीवदवस्थामरणवस्थाभेदगमके भवति प्रेत्यपदे दृष्टान्ते तद्दार्ष्टान्तिके साधनदशाफलदशाभेदबोधकपदाद्यभावात् । आदिना वाक्यम् । समानकालेति । वर्तमानकालत्वेन समानकालस्य बोधकपदयोर्विरोधस्यापातात् । विरोधापातस्तु साधनदशापन्नस्यैव ब्रह्मविदो ग्रहणे भवति । तदुक्त इति । औडुलोम्युक्तः । उत्तरार्धमिति । ऋगुत्तरार्ध सोऽश्नुत इत्यादि । युक्त्यन्तरमिति । युक्तिर्विग्रहवत्त्वे । यदि विग्रहो न स्यात्सहोक्तिर्न स्यादिति । अन्या युक्तिः । यदि विग्रहो न स्यात्कामा न स्युरिति । इदं युक्त्यन्तरम् । किञ्च । प्रथमेत्यादीति । प्रथमान्तं ब्रह्मवित्पदं तेनोपस्थितत्वम् । ब्रह्मविदोर्थस्य तेनेत्यर्थः । स्वातन्त्र्यमिति । स्वतन्त्रः कर्तेति सूत्रात् । तदेवेति । स्वातन्त्र्यमेव ब्रह्मणा सह स कर्ता स्वतन्त्रः । पूर्वोक्त इति