अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2420, कुल 2600 में से
संदर्भ में पढ़ेंपदेनोपन्यस्तम् । तेन ब्रह्मणोपि तत्समानक्रियावत्त्वं ज्ञाप्यते, परन्त्वप्राधान्येन । तथा च भक्तस्यैव कामा वक्तुमुचिताः, ते च न विग्रहं विना सम्भवन्ति । किञ्च । 'विपश्चिते'ति विशेषणेन विविधं पश्यद्विद्वत्त्वमुच्यते । कामभोगोक्तिप्रस्ताव एतदुक्त्या तदुपयोग्येष सर्वं वाच्यम् । एवं सति भक्तविविधभावान् पश्यति, स्वयं भोगचतुरश्चेत्युक्तं भवति । एतेनापि भक्तविग्रहः सिध्यति । ननु विग्रहस्या- गन्तुकत्वेन लौकिकत्वादलौकिकेन ब्रह्मणा भोगो विरुद्ध इत्यत आह पूर्वभावा- दिति । भक्तप्राप्तेः पूर्वमेव भगवदिच्छितभोगानुरूपविग्रहाणां सत्त्वान्न विरोधः । किञ्च । उक्तश्रुतिसूत्रैः पुरुषोत्तमेन सह भक्तस्य कामभोगो निरूपितः । स यावताऽर्थेन विना नोपपद्यते, तावान् स श्रुत्यभिमत इति मन्तव्यम् । तथा च ब्रह्मसम्बन्धयोग्यानि शरीराणि नित्यानि सन्त्येव । यथानुग्रहो यस्मिन् जीवे, स तादृशं तदाविश्य भगवदानन्दमश्नुत इति सर्वमवदातम् ॥ ७ ॥ भाष्यप्रकाशः। निवृत्तेस्तदयुक्तमित्यर्थः । विपश्चित्पदेनापि तत् साधयन्ति किञ्चेत्यादि । एतेनेति । भक्त- विग्रहाभावेऽनुपपद्यमानेन भोगचातुर्यबोधकविपश्चित्पदेन । हेत्वन्तरमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति भक्तेत्यादि । भक्तप्राप्तेरिति । भक्तस्य भगवत्प्राप्तेः । न विरोध इति । आग- न्तुकत्वलौकिकत्वाभ्यां कृतोपि चिन्मात्रत्वब्रह्मशरीरत्त्वयोर्विरोधो न । तथा चैतैर्हेतुभिर्विग्र- हवत्त्वस्याविरोधं मन्यत इत्यर्थः । सिद्धमाहुः किञ्चेत्यादि । सन्त्येवेति । पुत्तलिकावद्भगव- न्मन्दिरे भगवद्धर्मात्मकानि सन्त्येव । आविश्येति । अयं मम देह इत्यभिमानं कृत्वा । तथा च श्रुतार्थापत्तिसिद्धत्वान्नात्र सन्देह इत्यर्थः । ननु सूत्र एतच्छेषकपदाभावादेतस्यैतद्विषयवाक्यत्वं कथमवगन्तुं शक्यत इति चेत् । रश्मिः। क्रियान्वयिना ब्रह्मणोऽपि भक्तसमानाशनक्रियावत्त्वं ज्ञाप्यते । अप्राधान्येनेति । 'सहयुक्तेऽप्रधाने' इति पाणिनिसूत्रात् । सिद्धमाहुस्तथा चेति । औडुलोमिमतेऽयुक्ते योग्यं तमाहुः तथा चेति । विग्रहं विना कामपदव्याकोपान्निवृत्तेरौडुलोमिमतमयुक्तम् । तत्साधयन्तीति । शरीरं साधयन्ति । किञ्चेत्यादीति । स्वयमिति । तेन 'सूर्यो विपश्चिन्मनसा पुना'न्नित्यत्र सूर्ये विपश्चित्त्वं भगवदीयं बोध्यम् । हेत्वन्तरमिति । हेतुरुपन्यासः हेत्वन्तरं पूर्वभावः । भक्तस्येति । रसान्तःपाती भक्तोऽपि भग- वानिति सामर्थ्यसत्त्वान्न समासानुपपत्तिः । विरोधो नेति । आगन्तुकत्वेन चिन्मात्रत्वस्य लौकिकत्वेन ब्रह्मशरीरवत्त्वस्य यः सहानवस्थानलक्षणो विरोधः स न । तथा चैतैरिति । एते जैमिनिप्रभृतयः बादरायणश्च हेतुरुपन्यासादियुक्त्युपन्यासपूर्वभावैः । मन्यत इति । बादरायणो मन्यतेऽन्ये मन्यन्त इति वचनविपरिणामेनान्वयः । किञ्चेत्यादीति । स इति । सोऽर्थः । तदिति । शरीरम् । अश्नुते अश्नातीत्यर्थः । सर्वमिति । सगुणत्वेपि निर्गुणत्वम् । लीलायामात्मगुणाः सत्त्वादय इति सर्वं पूर्वोक्तं निर्दोषमित्यर्थः । सिद्धमाहुः तथा चेति । आक्षेप्यविग्रहे सिद्धे सति । ब्रह्म- विच्छ्रुतौ श्रुतो यः कामभोगो गुहा चार्थस्तत्प्राप्तिरापादनम् । यदि विग्रहा न स्युः कामभोगो गुहा च श्रुतो न स्याद् यतः श्रूयेतेतो विग्रहा इति श्रुतार्थापत्तिसिद्धत्वान्नात्राप्राकृतशरीरे सन्देहः । प्राकृतेन शरीरेण युक्तः उताप्राकृतेनेति सन्देहो नेत्यर्थः । श्रुतार्थापत्तिरुक्ता पूर्वम् । एतच्छेषकेति ।