अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 242, कुल 2600 में से
संदर्भ में पढ़ें‘हन्ताहं मदेव मन्मात्रं द्वितीयं तदेव निर्ममे’ इति द्वितीयस्य ब्रह्ममात्रत्वभाषणपूर्वकं सृष्टिकथनेन ‘विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्’ ॥ इति तृतीयस्कन्धे विश्वस्य ब्रह्मतन्मात्रत्वकथनेन च द्वितीयस्य विश्वस्य च साक्षादुपादेयत्वे ब्रह्म उपादानत्वस्यादण्डवारितत्वाच्च । नचोक्तैकवचनश्रुतिविरोधः । तस्या अवान्तरसृष्टिविषयक- त्वात् । एवकाराग्रपदाद्यभावेन पुरत्रयलयलिङ्गेन च तथा निश्चयात् । नापि स्मार्तसदापदविरोधः । प्राथमिकसृष्ट्यनन्तरं तथात्वेऽप्यविरोधात् । उक्तश्रुताविवेहापि प्राथमिकसृष्ट्यारम्भककालगमक- क्षाभावात् । उक्तदृष्टान्तोऽप्यसंगतः । पृथिव्यादितन्मात्रस्यैव साक्षाज्जलादिजन्यत्वात् । ‘रसमात्राद् विकुर्वाणादम्भसो दैवनोदितात् । गन्धमात्रमभूत् तस्मात् पृथ्वी घ्राणस्तु