अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 243, कुल 2600 में से
संदर्भ में पढ़ें१५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । रोधाच्चास्य प्रकृतानुपयोगित्वेन तथायासस्यापार्थत्वाच्च । एवं ब्रह्मणो मायोपाधिकं कर्तृत्वं प्रकृतितत्कार्योपाधिकं परिणाम्युपादानत्वमप्यवान्तरसृष्टिविषयकमेव । 'आनन्दरूपममृतं यद् विभाति,' 'सच्चिदानन्दरूपाय' इत्यादिश्रुतिभिः 'आनन्दमात्रकरपादमुखोदरादिः' इत्यादि- स्मृतिभिश्च ब्रह्मण आनन्दाकारत्वे सिद्धे मूलरूपस्यौपाधिकत्वकल्पनाया असंगतत्वात् । नच विकारित्वादि शङ्क्यम् । तस्याग्रे तदनन्यत्वाधिकरणे परिहरणीयत्वात् । एवमन्यदपि यद्यद् विरुद्धमविरुद्धं वा तत्सर्वं प्रसङ्गे व्यवस्थापयिष्यामः । भट्टभास्कराचार्यास्तु ब्रह्मण एवोपादानत्वमङ्गीकृत्य कार्यस्य जगतः कारणाद् भेदाभेदौ प्रतीत्या व्यवस्थापयन्ति । तथाह्याहुः- 'एकस्यैकत्वमस्तीति प्रमाणादवगम्यते । नानात्वं तस्य तत्पूर्वं कस्माद् भेदोऽपि नेष्यते ॥ यत्प्रमाणैः परिच्छिन्नमविरुद्धं हि तत् तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते' ॥ नह्यभिन्नं भिन्नमेव वा क्वचिद् दर्शयितुं शक्यते । सत्ताज्ञेयत्वद्रव्यत्वादिसामान्यात्मना सर्वमभिन्नं, व्यक्त्यात्मना तु परस्परवैलक्षण्याद् भिन्नम् । तथाहि- 'प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोघे च प्रमाणं कारणं मतम् ॥ एकरूपं प्रतीतत्वाद् द्विरूपं तत् तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम्' ॥ रश्मिः । साजात्याभावेऽप्युपादानत्वबोधनेनाप्रयोजकत्वनिश्चयादित्यर्थः । तथेति अविरोधप्रकारस्येत्यर्थः । अवान्तरेति 'माया च तमोरूपा' इति नृसिंहतापनीयात् । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरि- त्युभयरूपि तमस्तः सृष्टिरवान्तरसृष्टिस्तद्विषयकम् । व्यवस्था सर्वसंमतेत्येवकारः । अग्रे इति द्वितीया- ध्याय इत्यर्थः । प्रमाणादिति चक्षूरूपादित्यर्थः । तत्पूर्वमिति एकत्वपुरःसरमतो हेतोस्तथेत्यर्थः । एकैव मृन्नानाघटाद्याकारेण भवतीति निदर्शनमत्र बोध्यम् । यत्प्रमाणैरिति प्रमाणैश्चक्षुरादिभिर्य- द्वस्तु परिच्छिन्नं यद्विशिष्टं निश्चितं यथैकस्मिन् घटे द्रव्यत्वपृथिवीत्वघटत्वादयः रूपरसपरिमाणादयश्च प्रमाणनिश्चिता इति तद्विशिष्टं घटरूपं वस्तु तत्तथैवाविरुद्धम् । निश्चितोयमर्थ इति द्विशब्दार्थः । तथैव गवाश्वादिवस्तुजातं वक्ष्यमाणरीत्या भिन्नाभिन्नं प्रतीयतेऽतो भिन्नत्वाऽभिन्नत्वावच्छिन्नमेव वस्तु- जातमविरुद्धमित्यर्थः । उपपादयन्ति नहीत्यादि । एवेति अयमभिन्नमित्यत्रापि । सर्वमिति सन्ते सत्तादिकं सर्वत्र मन्यन्ते । परस्परेत्यादि परस्परं घटपटाद्याकारवैलक्षण्यादित्यर्थः । एवं भेदाभेदयोरविरोधमुक्त्वा प्रकृते योजयन्ति तथाहीत्यादि । तत्तथेष्यतामिति तत्तस्य यथाप्रतीतत्वात् शुक्लेकरूपं तथा बहुषु प्रतीतत्वाद् द्विरूपमप्यन्विच्छेत्तेष्यतामित्यर्थः । नन्वेवं सति 'एकमेवाद्वितीयं ब्रह्म' इतीकत्वमापनविरोध इति चेत्तत्राहुः एकरूपमिति । एकं ब्रह्म- 156