अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 244, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १५७ भाष्यप्रकाशः। ननु शीतोष्णयोर्यथा परस्परं विरोधस्तथा भेदाभेदयोः, किमिदमुच्यते नास्ति विरोध इति । अत्रोच्यते । भवतः प्रज्ञापराधोऽयं, न वस्तुविरोधः । कथम् । सहानवस्थानं, छायातप- वद्भिन्नदेशवर्तित्वं वा शीतोष्णवद्विरोधो नाम । एतदुभयमिह कार्यकारणयोर्ब्रह्मप्रपञ्चयोर्नास्ति । तत्र उत्पत्तेस्तत्रैवावस्थितेस्तत्रैव लयात् । विरोधे हि त्रयमेतन्नोपपद्यते । नहि कृशानुनाङ्कुरो- त्पत्त्यादिलक्षणः संबन्धो दृश्यते । कारणेन हि मृत्सुवर्णादिना कार्यं सर्वदानुस्यूतं दृश्यते । तत्राक्षिणी निमील्य परस्परासंगतिलक्षणो विरोधो वैयात्याद् वक्तव्यो भवेत्, प्राथमिक- श्रोत्रियश्रोत्रप्रतारणार्थं वा। शीतोष्णयोर्भिन्नाधारवर्तिनोर्न कदाचिदुत्पाद्योत्पादकलक्षणः संबन्धो, नाधाराधेयलक्षण इति युक्तस्तयोः परस्परविरोधः । तस्माच्छीतोष्णवदित्ययुक्तं दृष्टान्ताभिधानम्। अत्र प्रागल्भ्यात् कश्चिदाह । यथा संशयज्ञानं स्थाणुर्वा पुरुषो वेत्यप्रमाणं, तथा भेदाभेद- ज्ञानमिति । तदसत् । 'परस्परोपमर्देन न कदाचित् सह स्थितिः । प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता' ॥ अत्र पुनः कारणं पूर्वसिद्धं मृत्सुवर्णादिलक्षणम् । ततः कार्यं पश्चाज्जायमानं तदाश्रितमेव जायते । कारणसमानार्थतया हि कार्यबुद्धिः । न कारणस्वरूपोपमर्देन देशतः कालतो वा रश्मिः । रूपमेव भवेदितीश्वरभाषितं न किंतु एकोऽहं बहु स्यामिति एकं बहुरूपं भवेदितीश्वरभाषितमित्यर्थः । यद्वा । गोपालतापनीये कथं चतुर्भिरेको देवो भवेदिति प्रश्ने एकमेवाद्वितीयं ब्रह्मेत्युत्तरात्तथा । कृशानुनेति निमित्तकारणेन वह्निनेत्यर्थः । कारणेनेति समवायिनेत्यर्थः । दृश्यत इति तथा च न जगतो ब्रह्मणा सहानवस्थानं नापि भिन्नदेशवर्तित्वमित्यर्थः । तत्राक्षिणी इत्यादि उभयविध- लक्षणासंभवे सति भवज्ज्ञानमपि तिरोभावेत्यर्थः । वैयात्यादिति गत्यन्तरविरहात्प्रसिद्धं तद- संगतमिति दर्शनाच्चेत्यर्थः । एतदपि ब्रह्मजगतोर्गवाश्वादेश्च नास्तीति तत्प्रयोजनमाहुः प्राथमि- केत्यादि । साङ्गोपाङ्गवेदमात्रेण वेदार्थमवगच्छन्तः पूर्वकालीनशिष्टानुयायिनः छन्दोध्येतारः श्रोत्रि- यास्तेषां श्रोत्राणि भेदाभेदबोधकशब्दानेव गृहीतवन्तीति तेषामुक्त्तरीत्याऽसंगतिलक्षणविरोध- प्रदर्शनेन दुर्बुद्ध्युत्पादनार्थमित्यर्थः । वक्तव्य इत्यादि पूर्वेणान्वेति । उत्पाद्येति ब्रह्म जगद्वि- त्यादिः । तस्मादिति विरोधलक्षणाभावेपि विरुद्धत्वादित्यर्थः । प्रागल्भ्यादिति प्रतिभातिशया- दित्यर्थः । पाण्डित्या । यस्य चार्श इति । अप्रमाणमिति भावे ल्युट्, अप्रमेत्यर्थः । अत्र भेदाभेद- वादी किंचिदाह तदसदिति । अत्रापि विषमो दृष्टान्त इत्याशयेनाहुः परस्परेत्यादि । स्थाणुत्व- पुरुषत्वादीनां तन्मत्वेन तथेत्यर्थः । तथा प्रमेयानिश्चायकत्वात्संशयस्याप्रमात्वं चेत्यर्थे भावे ल्युटा निरुक्तमुपपादयन्ति अत्र पुनरित्यादि । तदाश्रितमिति कारणसमवेतमित्यर्थः । दृष्टान्ते तु स्थाणुत्वपुरुषत्वयोर्न कदाचित्सहस्थितिरित्यर्थः । एतद्विषयकं ज्ञानमपि प्रमात्मकमित्याहुः कारणेत्यादि । कारणं मृत्स्वरूपतः इत्येकार्थो विषयत्वेन यस्यां तत्तथा हि घटो मृदिति बुद्धिः उपपादिता । देशत इति यत्प्रदेशे घटो न मृत् यस्मिन्काले घटो न मृदिति च न दृष्टममूर्तं कार्यं 157